मधु॒ नक्त॑मु॒तोषसो॒ मधु॑म॒त्पार्थि॑वं॒ रजः॑ ।
मधु॒ द्यौर॑स्तु नः पि॒ता ॥
मधु॑ । नक्त॑म् । उ॒त । उ॒षसः॑ । मधु॑ऽमत् । पार्थि॑वम् । रजः॑ ।
मधु॑ । द्यौः । अ॒स्तु॒ । नः॒ । पि॒ता ॥
नक्तं रात्रिर्नोऽस्माकं मधु मधुमती माधुर्योपेतफलप्रदा भवतु । उतापि चोषस उषःकालोपलक्षितान्यहानि च मधुमंति भवंतु । पार्थिवं रजः पृथिव्याः संबंधी लोकोऽस्माकं मधुमत् माधुर्यविशिष्टफलयुक्तो भवतु । पिता दृष्टिप्रदानेन सर्वेषां पालयिता द्यौर्द्युलोकोऽपि मधु मधुयुक्तो भवतु ॥ पार्थिवम् । पृथिव्या ञाञौ । पा ४-१-८५-२ । इति प्राग्दीवृतीयोऽञ्प्रत्ययः । रजः । रजःशब्दो लोकवाची । लोका रजांस्युच्यंते (नि ४-१९) इति यास्कः । रजंत्यस्मिञ्चना इति रजः । असुनि रजकरजनरजःसूपसंख्यानम् । का ६-४-२४-४ । इति रंजेर्नलोपः ॥ ७ ॥