मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९०, ऋक् ८

संहिता

मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ अस्तु॒ सूर्य॑ः ।
माध्वी॒र्गावो॑ भवन्तु नः ॥

पदपाठः

मधु॑ऽमान् । नः॒ । वन॒स्पतिः॑ । मधु॑ऽमान् । अ॒स्तु॒ । सूर्यः॑ ।
माध्वीः॑ । गावः॑ । भ॒व॒न्तु॒ । नः॒ ॥

सायणभाष्यम्

नोऽस्माकं वनस्पतिर्वनानां पालयिता यूपाभिमानी देवो मधुमान् माधुर्योपेतफलवानस्तु । तादृशं फलमस्मभ्यं प्रयच्छत्वित्यर्थः । सूर्यः सर्वस्य प्रेरकः सविता च मधुमानस्तु । गावोऽग्निहोत्राद्यर्था धेनवश्च नोऽस्माकं माध्वीर्माधुर्योपेतेन पयसा युक्ता भवंतु ॥ वनस्पतिः वनानां पतिर्वनस्पतिः । पारस्करादित्वात्सुट् । वनपतिशब्दावाद्युदात्तौ । उभे वनस्पत्यादिषु युगपदिति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वं ॥ ८ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८