मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९०, ऋक् ९

संहिता

शं नो॑ मि॒त्रः शं वरु॑ण॒ः शं नो॑ भवत्वर्य॒मा ।
शं न॒ इन्द्रो॒ बृह॒स्पति॒ः शं नो॒ विष्णु॑रुरुक्र॒मः ॥

पदपाठः

शम् । नः॒ । मि॒त्रः । शम् । वरु॑णः । शम् । नः॒ । भ॒व॒तु॒ । अ॒र्य॒मा ।
शम् । नः॒ । इन्द्रः॑ । बृह॒स्पतिः॑ । शम् । नः॒ । विष्णुः॑ । उ॒रु॒ऽक्र॒मः ॥

सायणभाष्यम्

अहरभिमानी मित्रो देवो नोऽस्माकं शं सुखकरो भवतु । यद्वा । अस्मदीयानामुपद्रवाणां शमयिता भवतु । रात्र्यभिमानी वरुणश्च शं सुखकरो भवतु । अर्यमाऽहोरात्रयोः ख्यापयिता सूर्यश्च नोऽस्माकं शं सुखकरो भवतु । बृहस्पतिर्बृहतां देवानां पालयितेंद्रश्च नोऽस्माकं शं सुखकरो भवतु । उरुक्रमः । उरु विस्तीर्णं क्रामति पादौ विक्षिपतीत्युरुक्रमः । विष्णुर्हि वामनावतारे पृथिव्यादीन् लोकान्पदत्रयरूपेणाक्रांतवान् । अत उरुक्रमो विष्णुश्च नोऽस्माकं शं सुखकर उपद्रवाणां शमयिता वा भवतु ॥ उरुक्रमः । क्रमु पादविक्षेपे । पचाद्यच् । यद्वा । उरून् क्रामतीत्यरुक्रमः । कर्मण्यण् । नोदात्तोपदेशस्य मांतस्येति वृद्धिप्रतिषेधः ॥ ९ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८