मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९१, ऋक् २

संहिता

त्वं सो॑म॒ क्रतु॑भिः सु॒क्रतु॑र्भू॒स्त्वं दक्षै॑ः सु॒दक्षो॑ वि॒श्ववे॑दाः ।
त्वं वृषा॑ वृष॒त्वेभि॑र्महि॒त्वा द्यु॒म्नेभि॑र्द्यु॒म्न्य॑भवो नृ॒चक्षा॑ः ॥

पदपाठः

त्वम् । सो॒म॒ । क्रतु॑ऽभिः । सु॒ऽक्रतुः॑ । भूः॒ । त्वम् । दक्षैः॑ । सु॒ऽदक्षः॑ । वि॒श्वऽवे॑दाः ।
त्वम् । वृषा॑ । वृ॒ष॒ऽत्वेभिः॑ । म॒हि॒ऽत्वा । द्यु॒म्नेभिः॑ । द्यु॒म्नी । अ॒भ॒वः॒ । नृ॒ऽचक्षाः॑ ॥

सायणभाष्यम्

अग्निष्टोमे मरुत्वतीये त्वं सोम क्रतुभिरित्येषा धाय्या । सूत्रितं च । अग्निर्नेता त्वं सोम क्रतुभिः पिन्वंत्यप इति धाय्याः (आ ५-१४) इति ॥

हे सोम त्वं क्रतुभिस्त्वत्संबंधिरग्नि ष्टोमादिकर्मभिरात्मीयैर्ज्ञानैर्वा सुक्रतुः शोभनकर्मा शोभनप्रज्ञो वा भूः । भवसि । तथा विश्ववेदाः सर्वधनस्त्वं दक्षैरात्मीयैर्बलैः सुदक्षः शोभनबलो भवसि । तथा त्वं वृषत्वेभिर्वृषत्वैः कामाभिवर्षणैर्महित्वा महत्त्वेन माहात्म्येन च वृषा कामानां वर्षिता महांश्च भवसि । तथा त्वं नृचक्षा नृणां यज्ञस्य नेतृणां यजमानानामभिमतफलस्य दर्शयिता सन् द्युम्नेभिर्द्युम्नैस्तैर्दत्तैर्हविर्लक्षणैरन्नैर्द्युम्न्यभवः प्रभूतान्नो भवसि ॥ सुक्रतुः । बहुव्रीहौ क्रत्वादयश्चेत्युत्तरपदाद्युत्तत्वम् । सुदक्षः । दक्ष वृद्धौ । दक्ष्यतेऽनेनेति दक्षो बलम् । करणे घञ् । ञित्त्वादाद्युदात्तत्वम् । सुशब्देन बहुव्रीहावाद्युदात्तं द्व्यच्छंदसीत्युत्तरपदाद्युदात्तत्वम् । विश्ववेदाः । विश्वानि वेदांसि यस्यासौ । बहुव्रीहौ विश्वं संज्ञायामिति पूर्वपदांतोदात्तत्वम् । वृषत्वेभिः । वृष्णो भावो वृषत्वम् । बहुलं छंदसीति भिस ऐसभावः । महित्वा । महेरौणादिक इन्प्रत्ययः । भावप्रत्ययांतात्सुपां सुलुगिति विभक्तेराकारः ॥ २ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९