मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९१, ऋक् ३

संहिता

राज्ञो॒ नु ते॒ वरु॑णस्य व्र॒तानि॑ बृ॒हद्ग॑भी॒रं तव॑ सोम॒ धाम॑ ।
शुचि॒ष्ट्वम॑सि प्रि॒यो न मि॒त्रो द॒क्षाय्यो॑ अर्य॒मेवा॑सि सोम ॥

पदपाठः

राज्ञः॑ । नु । ते॒ । वरु॑णस्य । व्र॒तानि॑ । बृ॒हत् । ग॒भी॒रम् । तव॑ । सो॒म॒ । धाम॑ ।
शुचिः॑ । त्वम् । अ॒सि॒ । प्रि॒यः । न । मि॒त्रः । द॒क्षाय्यः॑ । अ॒र्य॒माऽइ॑व । अ॒सि॒ । सो॒म॒ ॥

सायणभाष्यम्

हे सोम राज्ञो ब्राह्मणानां स्वामिनः । सोमोऽस्माकं ब्राह्मणानां राजा । तै ब्रा १-७-४-२ । इति श्रुतेः । वरुणस्ययागार्थमाहृतः क्रीतो वस्त्रेणवृतः सोमो वरुणः । वरुणोऽसि धृतव्रत इति मंत्रलिंगात् । क्रीतस्य ते नु तव संबंधीनि हि व्रतानि सर्वाण्यग्निष्टोमादीनि कर्माणि । अतः सर्वेषु यागेषु त्वमेव करणभूतो भवसीत्यर्थः । अतस्तव धाम त्वदीयं तेजो बृहन्महद्विस्तीर्णं गंभीरं गांभीर्योपेतं च । यद्वा । नु इत्येतदुपमार्थे । तदुक्तं यास्केन । अथाप्युपमार्थे भवति वृक्षस्य नु ते पुरुहूत वयाः (नि १-४) इति । राज्ञो राजमानस्य वरुणस्य नु वरुणस्येव हे सोम ते तव व्रतानि कर्माणि लोकहितकारीणि । शिष्टं समानम् । हे सोमं त्वं शुचिः सर्वेषां शोधकोऽसि । तत्र दृष्टांतः । प्रियो न मित्रः । यथा सर्वेषामनुकूलोऽहरभिमानी मित्रो देवः शोधयिता भवति तद्वत् । तथा त्वमर्यमेवास्माभिर्दृश्यमानः सूर्य इव दक्षाय्योऽसि । सर्वेषां वर्धको भवसि । यथाहनि सूर्य प्रकाशेन सर्वं वर्धयति एवं निश्यमृतमयैः सोमकिरणैराप्यायमानं सत्स्थावरजंगमात्मकं सर्वं जगद्वर्धते ॥ शुचिष्ट्वम् । युष्मत्तत्ततक्षुःष्वंतः पादमिति विसर्जनीयस्य षत्वम् । दक्षाय्यः । दक्ष वृद्धौ । श्रुदक्षिस्पृहिग्रहिभ्य आय्यः (उ ३-९६) इत्याय्यप्रत्ययः ॥ ३ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९