मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९१, ऋक् ६

संहिता

त्वं च॑ सोम नो॒ वशो॑ जी॒वातुं॒ न म॑रामहे ।
प्रि॒यस्तो॑त्रो॒ वन॒स्पति॑ः ॥

पदपाठः

त्वम् । च॒ । सो॒म॒ । नः॒ । वशः॑ । जी॒वातु॑म् । न । म॒रा॒म॒हे॒ ।
प्रि॒यऽस्तो॑त्रः । वन॒स्पतिः॑ ॥

सायणभाष्यम्

साग्निचित्ये क्रतावग्नीषोमीयस्य पशुपुरोडाशमन्वष्टौ देवसुवां हवींषि निरुप्यंते । तत्र सोमस्य वनस्पतेर्हविषस्त्वं च सोमेत्येषानुवाक्या । अथाग्नीषोमीयेणेति खंडे सूत्रितम् । त्वं च सोम नो वशो ब्रह्मा देवानां पदवीः कवीनाम् (आ ४-११) इति ॥

हे सोम नोऽस्माकं स्तोतृणां जीवातुं जीवनौषधं त्वं च त्वं चेद्वशः कामयेथाः तदानीं वयं न मरामहे । न म्रियामहे । कीदृशस्त्वम् । प्रियस्तोत्रः । प्रियाणि स्तोत्राणि यस्यसः तथोक्तः । बहुभिः स्तोतव्य इत्यर्थः । वनस्पतिर्वनानामोषधिवनस्पतिरूपाणां पतिः पालयितासि । सोमो वा ओषधीनां राजा । तै । सं ६-१-९-१ । इति श्रुतेः ॥ वशः । वश कांतौ । लेट सिप्यडागमः । आगमानुदात्तत्वेधातुस्वरः शिष्यते । त्वं चेति चशब्दश्चणिति निपातांतरं चेदर्थम् । तद्योगान्निपातैर्यद्यदिहंतेति निघातप्रतिषेधः । जीवातुम् । जीव प्राणधारणे । जीवेरातुः (उ १-८०) मरामहे । मृङ् प्राणत्यागे व्यत्ययेन शप् ॥ ६ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०