मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९१, ऋक् ७

संहिता

त्वं सो॑म म॒हे भगं॒ त्वं यून॑ ऋताय॒ते ।
दक्षं॑ दधासि जी॒वसे॑ ॥

पदपाठः

त्वम् । सो॒म॒ । म॒हे । भग॑म् । त्वम् । यूने॑ । ऋ॒त॒ऽय॒ते ।
दक्ष॑म् । द॒धा॒सि॒ । जी॒वसे॑ ॥

सायणभाष्यम्

आयुष्कामेष्ट्यां द्वितीयस्याज्यभागस्य त्वं सोम महे भगमित्येषानुवाक्या । अथ काम्या इति खंडे सूत्रितम् । आ नो अग्ने सुचेतना त्वं सोम महे भगम् (आ २-१०) इति ॥

हे सोम त्वं महे महते वृद्धाय ऋतायते ऋतं यज्ञमात्मन इच्छते पुरुषाय जीवसे जीवितुं दक्षमुपभोगसमर्थं भगं धनं दधासि । विदधासि । करोषि । तथा त्वं यूने तरुणाय च ऋतायते जीवितुं धनं करोषि ॥ महे । महते । अच्छब्दलोपश्छांदसः । बृहन्महतोरुपसंख्यानमिति विभक्तेरुदात्तत्वम् । यूने । श्वयुवमघोनामतद्धित इति संप्रसारणम् । ऋतायते । ऋतमात्मन इच्छति । सुप आत्मनः क्यच् । न च्छंदस्यपुत्रस्येतीत्वदीर्घयोर्निषेधः । अन्येषामपि दृश्यत इति सांहितिको दीर्घः । क्यजंताल्लटः शतृ । शतुरनुमो नद्यजादी इति विभक्तेरुदात्तत्वम् । जीवसे । जीव प्राणधारणे । तुमर्थे सेसेनित्यसे प्रत्ययः ॥ ७ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०