मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९१, ऋक् ८

संहिता

त्वं नः॑ सोम वि॒श्वतो॒ रक्षा॑ राजन्नघाय॒तः ।
न रि॑ष्ये॒त्त्वाव॑त॒ः सखा॑ ॥

पदपाठः

त्वम् । नः॒ । सो॒म॒ । वि॒श्वतः॑ । रक्ष॑ । रा॒ज॒न् । अ॒घ॒ऽय॒तः ।
न । रि॒ष्ये॒त् । त्वाऽव॑तः । सखा॑ ॥

सायणभाष्यम्

स्वस्त्ययन्यां द्वितीयस्याज्यभागस्य त्वं नः सोमेत्येषानुवाक्या । सूत्रितं च । स्वस्त्ययन्यां रक्षितवंतावग्ने रक्षाणो अंहसस्त्वं नः सोम विश्वतः (आ २-१०) इति ॥

हे सोम राजन् राजनशील त्वमघायतः । आघं पापम् । तद्धेतुकं दुःख मस्माकं कर्तुमिच्छतो विश्वतः सर्वस्मादपि पुरुषान्नोऽस्मान्रक्ष । पालय । त्वावतस्त्वत्सदृशस्य सखा सख्यं प्राप्तः पुरुषो न रिष्येत् । नहि विनश्येत् । किमु वक्तव्यं त्वत्सखा न विनश्यतीति ॥ अघायतः । अघं पापं परेषामिच्छतीत्यघायन् । छंदसी परेच्छायामपीति क्यच् । अश्वाघस्यादित्यात्वम् । रिष्येत् । रुष रिष हिंसायाम् । त्वावतः । वतुव्प्ररकरणे युष्मदस्मध्भ्यां छंदसि सादृश्य उपसंख्यानमिति वतुप् । प्रत्ययोत्तरपदयोश्चेति मपर्यंतस्य त्वादेशः । आ सर्वनाम्न इत्यात्वं ॥ ८ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०