सोम॒ यास्ते॑ मयो॒भुव॑ ऊ॒तय॒ः सन्ति॑ दा॒शुषे॑ ।
ताभि॑र्नोऽवि॒ता भ॑व ॥
सोम॑ । याः । ते॒ । म॒यः॒ऽभुवः॑ । ऊ॒तयः॑ । सन्ति॑ । दा॒शुषे॑ ।
ताभिः॑ । नः॒ । अ॒वि॒ता । भ॒व॒ ॥
सोमप्रवहणे सोम यास्त इति तृचोऽनुवक्तव्यः । सूत्रितं च । सोम यास्ते मयोभुव इति तिस्रः । आ ४-४ इति ॥ आग्रयणे सौम्यस्य सोम यास्त इत्येषानुवाक्या । सूत्रितं च । सोम यास्ते मयोभुवो या ते धामानि दिवि या पृथिव्याम् । २-९ । इति ॥ अश्वमेधेऽपि पौष्ण्यामिष्टौ द्वितीयस्याज्यभागस्यैषानुवाक्या । सूत्रितं च । त्वमग्ने सप्रथा असि सोम यास्ते मयोभुव इति सद्वंतौ । आ १०-६ । इति ॥
हे सोम ते तव संबंदिन्यो दाशुषे चरुपुरोडाशादीनि दत्तवते यजमानाय मयोभुवो मयसः सुखस्य भावयित्र्यो या ऊतये रक्षाः संति विद्यंते ताभी रक्षाभिर्नोऽस्माकमविता रक्षिता भव ॥ मयोभुवः । अस्योतिविशेषणत्वेन स्त्रीलिंगत्वे भुवश्च (पा ४-१-४७) इति ङीष् प्राप्नोति । तद्वोतो गुणवचनादित्यस्मादुत इति तपरकरणस्यानुवर्तनान्न भवति ॥ ९ ॥