मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९१, ऋक् १०

संहिता

इ॒मं य॒ज्ञमि॒दं वचो॑ जुजुषा॒ण उ॒पाग॑हि ।
सोम॒ त्वं नो॑ वृ॒धे भ॑व ॥

पदपाठः

इ॒मम् । य॒ज्ञम् । इ॒दम् । वचः॑ । जु॒जु॒षा॒णः । उ॒प॒ऽआग॑हि ।
सोम॑ । त्वम् । नः॒ । वृ॒धे । भ॒व॒ ॥

सायणभाष्यम्

हे सोम त्वमिममस्माभिः क्रियमाणं यज्ञ मिदं वच इदानीं क्रियमाणं स्तुतिलक्षणं वचनं जुजुषाणः सेवमानः सन् उपागहि । उपागच्छ । प्राचीन वंशलक्षणं गृहं प्राप्नुहि । प्राप्यच नोऽस्माकं वृधे यज्ञस्य वर्धनाय भव ॥ जुजुषाणः । जुषी प्रीतिसेवनयोः । छंदसि लिट् । लिटः कानच् । चित इत्यंतो दात्तत्वम् । उपागहि । गमेर्लोट बहुलं छंदसीति शपो लुक् । अनुदात्तोपदेशेत्यादिना मकारलोपः । असिद्धवदत्रा भादित्यस्यासिद्धत्वाद्धेर्लुगभावः । गतिर्गतौ (पा ८-१-७०) इति पूर्वस्य गतेर्निघातः ॥ १० ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०