मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९१, ऋक् ११

संहिता

सोम॑ गी॒र्भिष्ट्वा॑ व॒यं व॒र्धया॑मो वचो॒विदः॑ ।
सु॒मृ॒ळी॒को न॒ आ वि॑श ॥

पदपाठः

सोम॑ । गीः॒ऽभिः । त्वा॒ । व॒यम् । व॒र्धया॑मः । व॒चः॒ऽविदः॑ ।
सु॒ऽमृ॒ळी॒कः । नः॒ । आ । वि॒श॒ ॥

सायणभाष्यम्

दर्शयागे सौम्यस्याज्यभागस्य सोम गीर्भिरित्येषानुवाक्या । सूत्रितं च । अग्निः प्रत्नेन मन्मना सोम गीर्भिष्ट्वावयम् (आ १-५) इति । अन्यत्रापि यत्र वृधन्वंतावाज्यभागौ तत्रैषा द्वितीयाज्यभागानुवाक्या ॥

हे सोम त्वा त्वां वचोविदः स्तुतिलक्षणानां वचसा वेदितारो वयमनुष्ठातारो गीर्भिः स्तुतिलक्षणैर्वचोभिर्वर्धयामः । प्रवृद्धं कुर्मः । तादृशस्त्वं च नोऽस्माकं सुमृळीकः शोभनं सुखं कुर्वन् सन् आ विश । आगच्छ ॥ सुमृळीकः । मृड सुखने । मृडेः कीकन्ककनौ (उ ४-२४) इति भावे कीकन्प्रत्ययः । शोभनं मृडीकं यस्येति बहुव्रीहौ नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वं ॥ ११ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१