मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९१, ऋक् १२

संहिता

ग॒य॒स्फानो॑ अमीव॒हा व॑सु॒वित्पु॑ष्टि॒वर्ध॑नः ।
सु॒मि॒त्रः सो॑म नो भव ॥

पदपाठः

ग॒य॒ऽस्फानः॑ । अ॒मी॒व॒ऽहा । व॒सु॒ऽवित् । पु॒ष्टि॒ऽवर्ध॑नः ।
सु॒ऽमि॒त्रः । सो॒म॒ । नः॒ । भ॒व॒ ॥

सायणभाष्यम्

संति पवमानेष्टयस्तिस्रः । तत्र तृतीयस्यामिष्टावुत्तरस्याज्यभागस्य गयस्फान इत्येषानुवाक्या । सूत्रितं च । पुष्टिमंतावग्निना रयिमश्नवद्गयस्फानो अमीवहा । आ । २-१ । इति ॥ एषैव प्रातःकालीनोपसदि सौम्ययागस्य याज्या सायं कालीनायां त्वनुवाक्या । सूत्रितं चाथोपसदिति खंडे । त्वं सोमासि सत्पतिर्गय स्फानो अमीवहा (आ ४-८) इति ॥

गयस्फानः । गय इति धननाम । धनस्य वर्धयिता अमीवहाऽमीवानां रोगाणां हंता वसुवित् स्तोतृणां धनस्य लंभयिता प्रापयिता पुष्टिवर्धनः पुष्पेः संपदो वर्धयिता सुमित्रः । शोभनानि मित्राणि सखायो यस्य स तथोक्तः । हे सोम त्वं नोऽस्माकमेवंगुणविशिष्टो भव ॥ गयस्फानः । स्छायी वृद्धौ । अंतर्भावितण्यर्थात् ल्युट व्यत्ययेन यलोपः । इदमादिषु चतुर्षुपदेषु कृदुत्तरपदप्रकृतिस्वरत्वम् । सुमित्रः । नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वं ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१