मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९१, ऋक् १३

संहिता

सोम॑ रार॒न्धि नो॑ हृ॒दि गावो॒ न यव॑से॒ष्वा ।
मर्य॑ इव॒ स्व ओ॒क्ये॑ ॥

पदपाठः

सोम॑ । र॒र॒न्धि । नः॒ । हृ॒दि । गावः॑ । न । यव॑सेषु । आ ।
मर्यः॑ऽइव । स्वे । ओ॒क्ये॑ ॥

सायणभाष्यम्

हे सोम त्वं नोऽस्माकं हृदि हृदये ररंधि । रमस्व । तत्र निदर्शनद्वय मुच्यते । गावो न । यथा गावो यवसेषु शोभनतृषेष्टाभिमुख्येन रमंते । मर्य इव । यथा वा मर्यो मरणधर्मा मनुष्यः स्व ओक्ये स्वकीय ओकसि गृहे पुत्रादिभिः सह रमते तद्वदस्माभिर्दत्तेन हविषा तृप्तः सन् अस्मास्वेवावतिष्ठस्व । नान्यत्र गच्छति निदर्शनद्वयस्य तात्पर्यार्थः ॥ ररंधि । रमु क्रीडायाम् । व्यत्ययेन परस्मैपदम् । बहुलं छंदसीति शपः श्लुः । छंदस्युभयथेति हेरार्धधातुकत्वेन ङुत्त्वाभावादङुतश्चेति हेर्धिः । आत एवाङित्त्वादनुनासिकलोपाभावः । सेर्ह्यपिच्चेति हेरपित्त्वात्तस्यैव स्वरः शिष्यते । छांदसमभ्यासदीर्घत्वम् । आमंत्रितं पूर्वमविद्यमानवदिति पूर्वस्यामंत्रितस्याविद्यमानवत्त्वात्पदादपरत्वेन निघाताभावः । मर्य इव । छंदसि निष्टर्क्येत्यादौ मर्यशब्दो यत्प्रत्ययांतो निपात्यते । यतोऽनाव इत्याद्युदात्तत्वम् । ओक्ये । उच समवाये । उच्यते समवेयते प्राप्यत इत्योक्यं गृहम् । ऋहलोर्ण्यत् । चजोः कु घिण्यतोरिति कुत्वम् । तित्स्वरितः ॥ १३ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१