मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९१, ऋक् १४

संहिता

यः सो॑म स॒ख्ये तव॑ रा॒रण॑द्देव॒ मर्त्य॑ः ।
तं दक्ष॑ः सचते क॒विः ॥

पदपाठः

यः । सो॒म॒ । स॒ख्ये । तव॑ । र॒रण॑त् । दे॒व॒ । मर्त्यः॑ ।
तम् । दक्षः॑ । स॒च॒ते॒ । क॒विः ॥

सायणभाष्यम्

हे देव द्योतमान सोम तव सख्ये त्वदीये सखित्वे निमित्तभूते सति यो मर्त्यो मरणधर्मा याजमानो रारणत् रणति एतत्सूक्तरूपेण त्वां स्तौति तं यजमानं कविः क्रांतदर्शी दक्षः सर्वकार्यसमर्थस्त्वं सचते । सेवसे । अनुगृह्णासीत्यर्थः ॥ ररणत् । रणशब्दार्थः । लेट्यडागमः । बहुलं छंदसीति शपः श्लुः । इतश्च लोप इतीकारलोपः । छंदस्युभयथेत्यार्धर्धातुकत्वादच्यनिट लसार्वधातुके विधीयमानस्याभ्यस्ताद्युदात्तत्वस्याभावे धातुस्वरः शिष्यते । सचते । षच समवाये । पुरुषव्यत्ययः ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१