मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९१, ऋक् १५

संहिता

उ॒रु॒ष्या णो॑ अ॒भिश॑स्ते॒ः सोम॒ नि पा॒ह्यंह॑सः ।
सखा॑ सु॒शेव॑ एधि नः ॥

पदपाठः

उ॒रु॒ष्य । नः॒ । अ॒भिऽश॑स्तेः । सोम॑ । नि । पा॒हि॒ । अंह॑सः ।
सखा॑ । सु॒ऽशेवः॑ । ए॒धि॒ । नः॒ ॥

सायणभाष्यम्

हे सोम त्वं नोस्मानभिशस्तेरभिशंतनादभिशापरूपान्निंदनादुरुष्य । रक्ष । उरुष्यती रक्षाकर्मेति यास्कः (नि ५-२३) तथांहसोऽस्मत्कृतात्पापाच्च नि पाहि । नितरां पालय । एवमस्मदीयं पापं परिहृत्य सुशेवोऽस्मभ्यं दातव्येन शोभनेन सुखेन युक्तः सन्सखैधि । हितकारी भव ॥ अभिशस्तेः । शन्सु स्तुतौ । अस्माद्भावे क्तिन् । तादौ चेति गतेः प्रकृतिस्वरत्वम् । एधि । अस भुवि । लोट सेर्हिः । तस्य ङित्त्वात् श्नसोरल्लोप इत्यकारलोपः । घ्वसोरेद्धावभ्यासलोपश्चेति सकारस्यैत्वम् । तस्यासिद्धवदत्रा भादित्य सिद्धत्वात् हुझल्भ्यो हेर्धिरिति हेर्धिरादेशः ॥ १५ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१