आ प्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्ण्य॑म् ।
भवा॒ वाज॑स्य संग॒थे ॥
आ । प्या॒य॒स्व॒ । सम् । ए॒तु॒ । ते॒ । वि॒श्वतः॑ । सो॒म॒ । वृष्ण्य॑म् ।
भव॑ । वाज॑स्य । स॒म्ऽग॒थे ॥
ग्रावस्तोत्र आप्यायस्व समेतु त इति तृचो विनियुक्तः । सूत्रितं च । आ प्यायस्व समेतु त इति तिस्रो मृजंति त्वा दश क्षिपः (आ ५-१२) इति ॥ पत्नीसंयाजेषु सौम्यस्या प्यायस्वेत्येषानुवाक्या । सूत्रितं च । आ प्यायस्व समेतु ते संते पयांसि समु यंतु वाजाः (आ १-१०) इति ॥ चमसाप्यायनेऽष्येषा विनियुक्ता । सूत्रितं च । आप्यायस्व समेतु ते सं ते पयांसि समु यंतु वाजा इति चमसानाद्योपाद्यन् (आ ५-६) इति ॥
हे सोम त्वमा प्यायस्व । वर्धयस्व । ते तव वृष्ण्यं वृषत्वं वीर्यं सामर्थ्यं विश्वतः सर्वतः समेतु । संगच्छताम् । त्वया संयुक्तं भवतु । एवंभूतस्त्वं वाजस्यान्नस्य संगथे संगमने भव । अस्माकमन्नप्रदो भवेत्यर्थः ॥ वृष्ण्यम् । वृष सेवने । कनिन्युवृषीत्यादिना कनिन् । वृष्टि भवं वृष्ण्यम् । भवे छंदसीति यत् । अल्लोपोऽन इत्यकारलोपः । ये चाभावकर्मणोरिति प्रकृतिभावस्तु व्यत्ययेन न प्रवर्तते । यतोऽनाव इत्याद्युदात्तत्वम् । भव । द्व्यचोऽतस्तिङ इति संहितायां दीर्घत्वम् । संगथे । पातृतुदिवचीत्यादिना विधीयमानस्थक्प्रत्ययो बहुलवचनाद्गमेरपि भवति । थाथादिनोत्तरपदांतोदात्तत्वं ॥ १६ ॥