मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९१, ऋक् १७

संहिता

आ प्या॑यस्व मदिन्तम॒ सोम॒ विश्वे॑भिरं॒शुभि॑ः ।
भवा॑ नः सु॒श्रव॑स्तम॒ः सखा॑ वृ॒धे ॥

पदपाठः

आ । प्या॒य॒स्व॒ । म॒दि॒न्ऽत॒म॒ । सोम॑ । विश्वे॑भिः । अं॒शुऽभिः॑ ।
भव॑ । नः॒ । सु॒श्रवः॑ऽतमः । सखा॑ । वृ॒धे ॥

सायणभाष्यम्

हे मंदितमातिशयेन मदवन् सोम विश्वेभिः सर्वैरंशुभिर्लतावयवैराप्यायस्व । आ समंताद्वृद्धो भव । स त्वं सुश्रवस्तमोऽतिशयेन शोभनान्नयुक्तः सन् नोऽस्माकं वृधे वर्धनाय सखा भव । मित्रीभव ॥ मदिंतम मदो हर्षः । तद्वान् मदी । अतिशयेन मदी मदिंतमः । नाद्घस्य । पा ८-२-१७ इति तमपो नुट् । सुश्रवस्तमः श्रव इत्यन्ननाम । श्रूयत इति श्रवः । नि १०-३ । इति यास्कः । शोभनं श्रवो यस्य स तथोक्तः । अतिशयेन सुश्रवाः सुश्रवस्तमः । तमपः पित्त्वादनुदात्तत्वे सोर्मनसी अलोमोषसी इत्युत्तरपदाद्युदात्तत्वमेव शिष्यते ॥ १७ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२