मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९१, ऋक् १९

संहिता

या ते॒ धामा॑नि ह॒विषा॒ यज॑न्ति॒ ता ते॒ विश्वा॑ परि॒भूर॑स्तु य॒ज्ञम् ।
ग॒य॒स्फानः॑ प्र॒तर॑णः सु॒वीरोऽवी॑रहा॒ प्र च॑रा सोम॒ दुर्या॑न् ॥

पदपाठः

या । ते॒ । धामा॑नि । ह॒विषा॑ । यज॑न्ति । ता । ते॒ । विश्वा॑ । प॒रि॒ऽभूः । अ॒स्तु॒ । य॒ज्ञम् ।
ग॒य॒ऽस्फानः॑ । प्र॒ऽतर॑णः । सु॒ऽवीरः॑ । अवी॑रऽहा । प्र । च॒र॒ । सो॒म॒ । दुर्या॑न् ॥

सायणभाष्यम्

सोमप्रवहणे या ते धामानीत्येषा । सूत्रितं च । याते धामानि हविषा यजंतीमां धियं शिक्षमाणस्य देवेति निहिते परिदध्यात् (आ ४-४) इति ॥ एकादशिनस्य सौम्यस्य पशोर्हविष एषैव याज्या । प्रदानानामिति खंडे सूत्रितम् । अषाळ्हं युत्सु पृतनासु पप्रिं या ते धामानि हविषा यजंति (आ ३-७) इति ॥

हे सोम ते त्वदीयानि या यानि धामानि द्युप्रभृतिष्ववस्थितानि तेजांसि हविषा चरुपुरोडाशादिना यजंति यजमानाः पूजयंति ता ते विश्वा त्वदीयानि तानि सर्वाणि धामानि यज्ञमस्मदीयमध्वरं परिभूरस्तु । परितो भावयितृणि परितःप्राप्तानि संतु । यद्वा । त्वदीयानां तेषां सर्वेषां धाम्नामस्मदीयो यजमानः परिभूर्यज्ञं प्रतिपरिग्रहीता यागेना स्वीकर्तास्तु । भवतु । परिपूर्वो भवतिः परिग्रहार्थः । तादृशैर्धामभिरुपेतस्त्वं दुर्यान् प्राचीनवंशादिलक्षणानस्मदीयान् गृहान् । गृहा वै दुर्या इति श्रुतेः । प्र चर । प्रकर्षेण गच्छ । कीदृशस्त्वम् । गयस्छानो गयस्य गृहस्य धनस्य वा वर्धयिता प्रतरणः प्रकर्षेण दुरितात्तारयिता सुवीरः शोभनैर्वीरैः पुरुषैरुपेतः अवीरहा । वीर्याज्जायंत इति वीराः पुत्राः । तेषामहंता ॥ परिभूः । भू प्राप्तौ । अस्मात्क्विप्चेति क्विप् । व्यत्ययो बहुलम् (पा ३-१-८५) इति लिंगवचनव्यत्ययौ । अस्तु । व्यत्ययेनैकवचनम् । गयस्छानः । गय इति गृहस्य धनस्य च नामधेयम् । तेषां स्छायिता । वर्धयिता । कृत्यल्युटो बहुलमिति कर्तरि ल्युट छांदसो यलोपः । अवीरहा वीराणां हंता वीरहा । न वीरहा अवीरहा ॥ १९ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२