मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९१, ऋक् २०

संहिता

सोमो॑ धे॒नुं सोमो॒ अर्व॑न्तमा॒शुं सोमो॑ वी॒रं क॑र्म॒ण्यं॑ ददाति ।
सा॒द॒न्यं॑ विद॒थ्यं॑ स॒भेयं॑ पितृ॒श्रव॑णं॒ यो ददा॑शदस्मै ॥

पदपाठः

सोमः॑ । धे॒नुम् । सोमः॑ । अर्व॑न्तम् । आ॒शुम् । सोमः॑ । वी॒रम् । क॒र्म॒ण्य॑म् । द॒दा॒ति॒ ।
स॒द॒न्य॑म् । वि॒द॒थ्य॑म् । स॒भेय॑म् । पि॒तृ॒ऽश्रव॑णम् । यः । ददा॑शत् । अ॒स्मै॒ ॥

सायणभाष्यम्

महापितृयज्ञे सोमस्य पितृमतो यागे सोमो धेनुमित्येषा द्वितीयानुवाक्या । तत्र ह्येकैकस्य हविषो द्वे द्वे अनुवाक्ये समुच्चयेन विहिते । तथैव दक्षिणाग्नेरिति खंडे सूत्रितम् । सोमो धेनुं सोमो अर्वंतमाशुं त्वं सोम पितृभिः संविदानः (आ २-१९) इति ॥

यो यजमानो ददाशत् सोमाय हविर्लक्षणान्यन्नानि दद्यात् तस्मै यजमानाय सोमो धेनुं सवत्सां दोग्ध्रीं गां ददाति । तथाशुं शीघ्रगामिनमर्वंतमश्वं ददाति । प्रयच्छति । तथा वीरं पुत्रमस्मै यजमानाय ददाति । कीदृशं पुत्रम् । कर्मण्यं लौकिककर्मसु कुशलं सदन्यम् । सदनं गृहम् । तदर्हम् । गृहकार्यकुशलमित्यर्थः । विदथ्यम् । विदंत्येषु देवानिति विदथा यज्ञाः तदर्हम् । दर्शपूर्णमासादियागानुष्ठानपरमित्यर्थः । सभेयं सभायां साधुम् । सकलशास्त्राभिज्ञमित्यर्थः । पितृश्रवणं पिता श्रूयते प्रख्यायते येन पुत्रेण तादृशं ॥ कर्मण्यम् । कर्मसु साधुः कर्मण्यः । तत्र साधुः (पा ४-४-९८) इति यत् । ये चाभावकर्मणोरिति प्रकृतिभावः । तित्स्वरितमिति स्वरितत्वम् । एवमुत्तरत्रापि यत्प्रत्ययः । सभेयम् । ढश्छंदसि (पा ४-४-१०६) इति तत्र साधुरित्यर्थे ढप्रत्ययः । ददाशत् । दाशृ दाने । लेट्यडागमः । बहुलं छंदसीति शपः श्लुः ॥ २० ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२