मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९१, ऋक् २२

संहिता

त्वमि॒मा ओष॑धीः सोम॒ विश्वा॒स्त्वम॒पो अ॑जनय॒स्त्वं गाः ।
त्वमा त॑तन्थो॒र्व१॒॑न्तरि॑क्षं॒ त्वं ज्योति॑षा॒ वि तमो॑ ववर्थ ॥

पदपाठः

त्वम् । इ॒माः । ओष॑धीः । सो॒म॒ । विश्वाः॑ । त्वम् । अ॒पः । अ॒ज॒न॒यः॒ । त्वम् । गाः ।
त्वम् । आ । त॒त॒न्थ॒ । उ॒रु । अ॒न्तरि॑क्षम् । त्वम् । ज्योति॑षा । वि । तमः॑ । व॒व॒र्थ॒ ॥

सायणभाष्यम्

हे सोम त्वमिमा भूम्यं वर्तमाना विश्वाः सर्वा ओषधीरजनयः । उत्पादितवानसि । तथा त्वमपस्तासामोषधीनां कारणभूतानि वृष्व्युदकान्यजनयः । तथा त्वं गाः सर्वान्पशूनुदपादयः । उरु विस्तीर्णमंतरिक्षं त्वमा ततंथ । विस्तारितवानसि । तस्मिन्नंतरिक्षे यत्तमोऽस्मद्दृष्विनिरोधकमंधकारं तदपि त्वं ज्योतिषात्मीयेन प्रकाशेन वि ववर्थ । विवृतं विश्लिष्टं विनष्टं कृतवानसि ॥ ततंथ । तनु विस्तारे । ववर्थ । वृञ् वरणे । उभयत्र लिटस्स्थलि बभूथा ततंथ जगृम्भ ववर्थेति निगमे । पा सू ७-२-६४ । इति निपात्यते ॥ २२ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३