मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९१, ऋक् २३

संहिता

दे॒वेन॑ नो॒ मन॑सा देव सोम रा॒यो भा॒गं स॑हसावन्न॒भि यु॑ध्य ।
मा त्वा त॑न॒दीशि॑षे वी॒र्य॑स्यो॒भये॑भ्य॒ः प्र चि॑कित्सा॒ गवि॑ष्टौ ॥

पदपाठः

दे॒वेन॑ । नः॒ । मन॑सा । दे॒व॒ । सो॒म॒ । रा॒यः । भा॒गम् । स॒ह॒सा॒ऽव॒न् । अ॒भि । यु॒ध्य॒ ।
मा । त्वा॒ । आ । त॒न॒त् । ईशि॑षे । वी॒र्य॑स्य । उ॒भये॑भ्यः । प्र । चि॒कि॒त्स॒ । गोऽइ॑ष्टौ ॥

सायणभाष्यम्

हे देव द्योतमान सहसावन् बलवन् सोम देवेन मनसा द्योत मानया त्वदीयया बुद्ध्यारायो भागं धनस्यांशं नोऽस्मानभिलक्ष्य युध्य । प्रेरय । यद्वा । नोऽस्माकं रायो धनस्य भागं भक्तारमपहर्तारं शत्रुमभि युध्य । अभिमुख्येन सम्यक् प्रहर । त्वा तादृशं त्वां कश्चिदपि शत्रुर्मा आ तनत् । क्लेशेनाततं मा कार्षित् । मा हिंसीदित्यर्थः । उभयेभ्य उभयेषां युध्यमानानां संबंधिनो वीर्यस्य बलस्य त्वमीशिषे । ईश्वरो भवसि । स त्वं गविष्टौ संग्रामे प्र चिकित्स । अस्मदीयमुपद्रवं परिहर ॥ रायः । ऊडिदमिति विभक्तेरुदात्तत्वम् । भागम् । भजतेः कर्मणि घञ् । कृत्यल्युटो बहुलमिति बहुलवचनात्कर्तरि वा । कर्षात्वत इत्यंतोदात्तत्व म् । सहसावन् । सहःशब्दान्मतुपि च्चांदस आकारोपजनः । युध्य । युध संप्रहारे । व्यत्ययेन परस्मैपदम् । तनत् । तनु विस्तारे । व्यत्ययेन शप् । नमाङ्योग इत्यडभावः । ईशिषे । ईशः से (पा ७-२-७७) इतीडागमः । चिकित्स । कित ज्ञाने । गुप्तिज् किद्भ्यः सन् (पा ३-१-५) गविष्टौ । गवां बाणानामिष्टय एषणानि गमनानि येष्विति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ २३ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३