मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९२, ऋक् २

संहिता

उद॑पप्तन्नरु॒णा भा॒नवो॒ वृथा॑ स्वा॒युजो॒ अरु॑षी॒र्गा अ॑युक्षत ।
अक्र॑न्नु॒षासो॑ व॒युना॑नि पू॒र्वथा॒ रुश॑न्तं भा॒नुमरु॑षीरशिश्रयुः ॥

पदपाठः

उत् । अ॒प॒प्त॒न् । अ॒रु॒णाः । भा॒नवः॑ । वृथा॑ । सु॒ऽआ॒युजः॑ । अरु॑षीः । गाः । अ॒यु॒क्ष॒त॒ ।
अक्र॑न् । उ॒षसः॑ । व॒युना॑नि । पू॒र्वऽथा॑ । रुश॑न्तम् । भा॒नुम् । अरु॑षीः । अ॒शि॒श्र॒युः॒ ॥

सायणभाष्यम्

अरुणा आरोचमाना भानव औषस्यो दीप्तयो वृथानायासेन स्वयमेवोदपप्तन् । उदगमन् । तदनंतरमुषसश्च स्वायुजः सुखेन रथ आयोक्तुं शक्या आरुषीः शुभ्रवर्णा गाः पूर्वमुत्थितान् रश्मीन् ईदृशीः स्ववाहनभूताश्चतु ष्पदीर्गा एव वायुक्षत । स्वरथेऽयोजयन् । उक्तंच । अरुण्यो गाव उषसामिति । एवं गोभिर्युक्तं रथमारुह्योषसः पूर्वथा पूर्वेष्वतीतेष्वहःस्विव वयुनानि सर्वेषां प्राणिनां ज्ञानान्यक्रन् । अकार्षुः । उषःकाले जाते हि सर्वे प्राणिनो ज्ञानयुक्ता भवंति । तदनंतरमरुषीरारोचमानास्ता उषसोरुशंतम् । रुशदिति वर्णनाम रोचतेर्ज्वलतिकर्मणः । नि । २-२० । इति यास्कः । शुभ्रवर्णं भानुम् । सूर्यमशिश्रयः । असेवंत । तेन सहैकीभवंतीत्यर्थः ॥ अपप्तन् । पत्लृगतौ । लुङि लृदित्वात् च्लेरङादेशः । पतः पुम् । ७-४-१९ । इति धातो पुमागमः । अक्रन् । मंत्रे घसेत्यादीना च्लेर्लुक् । पूर्वथा । प्रत्नपूर्वविश्वेमात्थाल् छंदसि (पा ५-३-१११) इतिवार्थे थाल्प्रत्ययः । अशित्रयुः । श्रिञ् सेवायाम् । बहुलं छंदसीति शपः श्लुः । सिजभ्यस्तविदिभ्यश्चेति झेर्जुस् । जुसि च पा ७-३-८३ । इति गुणः ॥ २ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४