मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९२, ऋक् ५

संहिता

प्रत्य॒र्ची रुश॑दस्या अदर्शि॒ वि ति॑ष्ठते॒ बाध॑ते कृ॒ष्णमभ्व॑म् ।
स्वरुं॒ न पेशो॑ वि॒दथे॑ष्व॒ञ्जञ्चि॒त्रं दि॒वो दु॑हि॒ता भा॒नुम॑श्रेत् ॥

पदपाठः

प्रति॑ । अ॒र्चिः । रुश॑त् । अ॒स्याः॒ । अ॒द॒र्शि॒ । वि । ति॒ष्ठ॒ते॒ । बाध॑ते । कृ॒ष्णम् । अभ्व॑म् ।
स्वरु॑म् । न । पेशः॑ । वि॒दथे॑षु । अ॒ञ्जन् । चि॒त्रम् । दि॒वः । दु॒हि॒ता । भा॒नुम् । अ॒श्रे॒त् ॥

सायणभाष्यम्

प्रातरनुवाकस्योषस्ये क्रतौ प्रत्यर्चिरित्यष्टावनुवक्तव्याः । आश्विनशस्त्रे च । तथा च सूत्रितम् । प्रत्यर्चिरित्यष्टौ व्युषा आ वो दिविजा इति षळिति त्रैष्टुभम् (आ ४-१४) इति ॥

अस्या उषसो रुशद्दीप्यमानमर्चिस्तेजः प्रत्यदर्शि । सर्वैः पूर्वस्यां दिशि प्रथमतो दृश्यते । वि तिष्ठते । सर्वासु दिक्षु विविधमवतिष्ठते । व्याप्नोतीत्यर्थः । सर्वा दिशो व्याप्य चाभ्वम् । महन्नामृतत् । अतिशयेन विपुलं कृष्णं कृष्णवर्णमंधकारं बाधते । अपसारयति । विदथेषु यज्ञेषु स्वरुं न स्वरुनाम्ना शकलेन युक्तं यूपं यथाज्येनाध्वर्यवो अंजन् अंजंति तद्वन्नभिसि स्वकीयं पेशो रूपमुषा अनक्ति । संश्लिष्टं करोति । तदनंतरं चित्रं चायनीयं भानुं सूर्यं दिवो दुहिता द्युलोकादुत्पन्नोषा अश्रेत् । असेवत ॥ वि तिष्ठते । समवप्रविभ्य इत्यात्मनेपदम् । अश्रेत् । श्रीञ् सेवायाम् । लङि बहुलं छंदसीति शपो लुक् ॥ ५ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४