मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९२, ऋक् ८

संहिता

उष॒स्तम॑श्यां य॒शसं॑ सु॒वीरं॑ दा॒सप्र॑वर्गं र॒यिमश्व॑बुध्यम् ।
सु॒दंस॑सा॒ श्रव॑सा॒ या वि॒भासि॒ वाज॑प्रसूता सुभगे बृ॒हन्त॑म् ॥

पदपाठः

उषः॑ । तम् । अ॒श्या॒म् । य॒शस॑म् । सु॒ऽवीर॑म् । दा॒सऽप्र॑वर्गम् । र॒यिम् । अश्व॑ऽबुध्यम् ।
सु॒ऽदंस॑सा । श्रव॑सा । या । वि॒ऽभासि॑ । वाज॑ऽप्रसूता । सु॒ऽभ॒गे॒ । बृ॒हन्त॑म् ॥

सायणभाष्यम्

हे उष उषोदेवते तं रयिं धनमश्याम् । प्राप्नुयाम् । कीदृशम् । यशसं यशसा कीर्त्या युक्तम् । सर्वैः प्रशस्यमित्यर्थः । सुवीरं शोभनैर्वीरैः पुत्रादिभिर्युक्तं दासप्रवर्गम् । प्रकृष्टो वर्गः संघः प्रवर्गः । दासानां कर्मकराणां प्रवर्गो यस्मिन् तम् । अनेकैर्भृत्यैरुपेतमित्यर्थः । अश्वबुध्यम् । अश्वा बुध्या बोद्धव्या येन धनेन तादृशम् । हे सुभगे शोभनधन उषः सुदंससा शोभनेन कर्मणा युक्तेन श्रवसा श्रवणीयेन स्तोत्रेण प्रीता त्वं वाजप्रसूतास्मभ्यं दत्तान्ना सती बृहंतं प्रौढं या यं रयिं विभासि विशेषेण प्रकाशयसि । तमश्यामिति पूर्वेण संबंधः ॥ अश्याम् । अशू व्याप्तौ । व्यत्ययेन परस्मैपदम् । बहुलं छंदसीति विकरणस्य लुक् । यशसम् । अर्शआदित्वान्मत्वर्थीयोऽच् । व्यत्ययेन प्रत्ययात्पूर्वस्योदात्तत्वम् । दासप्रवर्गम् । दासयुत्युपक्षपयति शत्रूनिति दासो भृत्यः । दसु उपक्षये । अस्माण्ण्यंतात्पचाग्यच् । चित्त्वादंतोदात्तत्वम् । तदेव बहुव्रीहिस्वरेण शिष्यते । सुदंससा । सोर्मनसी अलोमोषसी इति बहुव्रीहावुत्तरपदाद्युदात्तत्वम् । या । सुपां सुलुगित्यमो डादेशः ॥ ८ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५