मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९२, ऋक् १०

संहिता

पुनः॑पुन॒र्जाय॑माना पुरा॒णी स॑मा॒नं वर्ण॑म॒भि शुम्भ॑माना ।
श्व॒घ्नीव॑ कृ॒त्नुर्विज॑ आमिना॒ना मर्त॑स्य दे॒वी ज॒रय॒न्त्यायु॑ः ॥

पदपाठः

पुनः॑ऽपुनः । जाय॑माना । पु॒रा॒णी । स॒मा॒नम् । वर्ण॑म् । अ॒भि । शुम्भ॑माना ।
श्व॒घ्नीऽइ॑व । कृ॒त्नुः । विजः॑ । आ॒ऽमि॒ना॒ना । मर्त॑स्य । दे॒वी । ज॒रय॑न्ती । आयुः॑ ॥

सायणभाष्यम्

पुनःपुनर्जायमाना प्रतिदिवसं सूर्योदयात्पूर्वं प्रादुर्भवंती पुराणी चिरंतनी । नित्येत्यर्थः । यस्मात्समानं वर्णमेकमेव रूपमभि प्राप्य शुंभमाना शोभमाना । विभिन्नेष्वपि दिविसेष्वस्या ऐकरूप्येणावस्थासान्नित्यत्वमित्यर्थः । एवंगुणविशिष्टा देवी देवनशीलोषा मर्तस्य मरणधर्मणः सर्वस्य प्राणिजातस्यायुर्जीवनं जरयंत्यूनयंती वर्तते । बह्वीषूषःस्वतीतासु हि सर्वेषामायुर्हीयते । उषाश्च पुनःपुनर्जायमानेत्युक्तं अतः सैवायुर्जरयति । तत्र दृष्टांतः । कृत्नुः कर्तनशीला श्वघ्नीव व्याधस्त्रीव । सा यथा विजश्चलतः पक्षिण आमिनाना पक्षादिच्छेदनेन हिंसंती तेषामायुर्जरयति तद्वत् ॥ पुराणे । पुरेत्यस्मादव्ययात् सायंचिरंप्राह्ण इत्यादिना (पा ४-३-२३) भवार्थे ट्युप्रत्ययः । पुराणप्रोक्तेषु ब्राह्मणकल्पेषु (पा ४-३-१०५) इति निपातनात्तुडभावः । योरनादेशः । टित्वाङ्ङीप् । व्यत्ययेनांतोदात्तत्वम् । शुंभमाना । शुन्भ दीप्तौ । शपः पित्त्वादनुदात्तत्वम् । शानचोलसार्वधातुकस्वरेण धातुस्वरः शिष्यते । श्वघ्नी । शुना मृगान् हतवान् श्वहा । बहुलं छंदसि (पा ३-२-८८) इति वचनाद्ब्रह्मादिव्यतिरिक्तेऽप्युपपदे हंतेः क्विप् । ऋन्नेभ्यो ङीभिति ङीप् । अल्लोपोऽन इत्यकारलोपः । हो हंतेरिति घत्वम् । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम् । कृत्नुः । कृती छेदने । औणादिकः क्नुप्तत्ययः । विजः । ओविजी भय चलनयोः । विजंति चलंतीति विजः पक्षिणः । आमिनाना । मीञ् हिंसायां क्रैयादिकः । प्वादीनां ह्रस्व इति ह्रस्वत्वम् । शानचश्चित्त्वादंतोदात्तत्वं ॥ १० ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५