मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९२, ऋक् १३

संहिता

उष॒स्तच्चि॒त्रमा भ॑रा॒स्मभ्यं॑ वाजिनीवति ।
येन॑ तो॒कं च॒ तन॑यं च॒ धाम॑हे ॥

पदपाठः

उषः॑ । तत् । चि॒त्रम् । आ । भ॒र॒ । अ॒स्मभ्य॑म् । वा॒जि॒नी॒ऽव॒ति॒ ।
येन॑ । तो॒कम् । च॒ । तन॑यम् । च॒ । धाम॑हे ॥

सायणभाष्यम्

प्रातरनुवाकस्योषस्ये क्रतावौष्णिहे छंदस्युषस्तच्चित्रमिति तृचो विनियुक्तः । आश्विनशस्त्रे च । अथोषस्य इति खंडे सूत्रितम् । उषस्तच्चित्रमा भरेति । तिस्र औष्णिहम् (आ ४-१४) इति ॥

हे वाजिनीवति । वाजो हविर्लक्षणमन्नम् । तद्युक्ता क्रिया वाजिनी । तया क्रियया युक्त उष उषोदेवतेऽस्मभ्यं चित्रं चायनीयं तद्धनमा भर । आहर । प्रयच्छ । येन धनेन तोकं पुत्रं तनयं तत्पुत्रं च धामहे दध्महे धारयामः । अत्र निरुक्तम् । उषस्तच्चित्रं चायनीयं धनमाहरास्मभ्यमन्नवति येन पुत्रांश्च पौत्रांश्च दधीमहि । नि १२-६ । इति ॥ धामहे । दधातेर्लट बहुलं छंदसीति शपो लुक् । व्यत्ययेनाद्युदात्तत्वम् । यद्वा । लोट्याडुत्तमस्य पिच्चेत्याडागमः प्रत्ययस्य पिद्वद्भावश्च । अतः प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । अस्मिन्पक्ष एत ऐ (पा ३-४-९३) इत्यैत्वाभावो व्यत्ययेन द्रष्टव्यः । यद्वृत्तयोगादनिघातः ॥ १३ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६