मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९२, ऋक् १७

संहिता

यावि॒त्था श्लोक॒मा दि॒वो ज्योति॒र्जना॑य च॒क्रथु॑ः ।
आ न॒ ऊर्जं॑ वहतमश्विना यु॒वम् ॥

पदपाठः

यौ । इ॒त्था । श्लोक॑म् । आ । दि॒वः । ज्योतिः॑ । जना॑य । च॒क्रथुः॑ ।
आ । नः॒ । ऊर्ज॑म् । व॒ह॒त॒म् । अ॒श्वि॒ना॒ । यु॒वम् ॥

सायणभाष्यम्

हे अश्विनौ यौ युवां दिवो द्युलोकात् श्लोकमुपश्लोकनीयं प्रशंसनीयं ज्योतिस्तेज इत्थेत्थमस्माभिरनुभूयमानेन प्रकारेण चक्रथुः कृतवंतौ । केषांचिन्मतेन सूर्याचंद्रमसावश्विनावुच्येते । तदुक्तं यास्केन । तत्कावश्विनौ द्यावापृथिव्यावित्येकेऽहोरात्रावित्येके सूर्याचंद्रमसावित्येके । नि १२-१ । इति । तथा च प्रकाशकत्वं तयोरुपपन्नम् । तौ युवं युवां नोऽस्मभ्यमूर्जं बलप्रदमन्नमा वहतम् । आनयतम् । प्रयच्छतं ॥ श्लोकम् । श्लोकृ संघाते । अयं स्तुत्यर्थोऽपि । कर्मणि घञ् । इित्त्वादाद्युदात्तत्वं ॥ १७ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७