मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९३, ऋक् ९

संहिता

अग्नी॑षोमा॒ सवे॑दसा॒ सहू॑ती वनतं॒ गिरः॑ ।
सं दे॑व॒त्रा ब॑भूवथुः ॥

पदपाठः

अग्नी॑षोमा । सऽवे॑दसा । सहू॑ती॒ इति॒ सऽहू॑ती । व॒न॒त॒म् । गिरः॑ ।
सम् । दे॒व॒ऽत्रा । ब॒भू॒व॒थुः॒ ॥

सायणभाष्यम्

पौर्णमासयागेऽग्नीषोमीयस्य यागस्याग्नीषोमेत्येषानुवाक्या । तथा च सूत्रितमुक्ता देवता इति खंडे । अग्नीषोमा सवेदसा युवमेतानि दिवि रोचनानि । आ ॥ १-६ । इति

हे अग्नीषोमौ युवां सवेदसा समानेनैकेन वेदसा हविर्लक्षणेन धनेन युक्तौ सहूती समानह्वानौ च संतौ गिरोऽस्मदीयाः स्तुतीर्वनतम् । संभजेथाम् । देवत्रा देवेषु सर्वेषु यौ युवां सं बभूवथुः संभूतौ संभावितौ प्रशस्तौ स्थः । राजानौ वा एतौ देवतानां यदग्नीषोमाविति श्रुतेः ॥ सवेदसा । समानं वेदो ययोः । समानस्य च्छंदसीति सभावः । वनतम् । वन षण संभक्तौ । देवत्रा । देवमनुष्यपुरुषपुरुमर्त्येत्यादिना सप्तम्यर्थे त्राप्रत्ययः ॥ ९ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९