मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९४, ऋक् १

संहिता

इ॒मं स्तोम॒मर्ह॑ते जा॒तवे॑दसे॒ रथ॑मिव॒ सं म॑हेमा मनी॒षया॑ ।
भ॒द्रा हि न॒ः प्रम॑तिरस्य सं॒सद्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥

पदपाठः

इ॒मम् । स्तोम॑म् । अर्ह॑ते । जा॒तऽवे॑दसे । रथ॑म्ऽइव । सम् । म॒हे॒म॒ । म॒नी॒षया॑ ।
भ॒द्रा । हि । नः॒ । प्रऽम॑तिः । अ॒स्य॒ । स॒म्ऽसदि॑ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥

सायणभाष्यम्

पंचदशेऽनुवाके द्वादश सूक्तानि । तत्रेमं स्तोममिति षोडशर्चं प्रथमं सूक्तम् । अंगिरसस्य कुत्सस्यार्षम् । पंचदशीषोडश्यौ त्रिष्टुभौशिष्टा जगत्यः । अग्निर्देवता । पूर्वो देवा भवतु सुन्वतो रथ इति त्रयः पादा देवदेवत्याः । तन्नो मित्रो वरुण इत्यर्धर्चो लिंगोक्तमित्रावरुणादिषड्देवत्यः । अथवा तस्याप्यग्निरेव देवता मित्रावरुणादयस्तु निपातभाक्त्वेनाप्रधानाः । एतत्सर्वमनुक्रांतम् । इमं षोळश कुत्स आग्नेयं तद्द्वित्रिष्टुबंतं पूर्वो देवास्त्रयः पादा दैवास्तन्नो मित्रोऽर्धर्चो लिंगोक्तदेवतो यद्देवत्यं वा सूक्तमिति ॥ प्रातरनुवाकस्याग्नेये क्रतौ जागते छंदस्येतत्सूक्तम् । आश्विनशस्त्रे च । तथा च सूत्रितम् । इमं स्तोममर्हते सं जागृवद्भिः (आ ४-१३) इति ॥ आभिप्लविके षष्ठेऽहन्याग्निमारुतेऽप्येतत्सूक्तं जातवेदस्यनिविद्धानम् । सूत्रितं च । प्रयज्यव इमं स्तोममित्याग्निमारुतम् । आ ७७ । इति ॥ तृतीयसवन इमं स्तोममित्येषाग्नीधः प्रस्थितयाज्या । सूत्रितं च । इमं स्तोममर्हते जातवेदस इति तार्तीयसवनिक्यः (आ ५-५) इति ॥

अर्हते पूज्याय जातवेदसे जातानामुत्पन्नानां वेदित्रे जातप्रज्ञाय जातधनाय वाग्नये मनीषया निशितया बुद्ध्येममेतत् सूक्तरूपं स्तोमं स्तोत्रं रथमिव यथा तक्षा रथं संस्करोति तथा सं महेम । सम्यक् पूजितं कुर्मः । अस्याग्नेः संसदि संभजने नोऽस्माकं प्रमतिः प्रकृष्टा बुद्धिर्भद्रा हि कल्याणी समर्था खलु । अतस्तया बुद्ध्या स्तुम इत्यर्थः । हे अग्ने तव सख्येऽस्माकं त्वया सह सखित्वे सति वयं मा रिषाम । हिंसिता न भवाम । अस्मान्रक्षेत्यर्थः ॥ अर्हते । अर्ह पूजायाम् । अर्हः प्रशंसायाम् (पा ३-२-१३३) इति लटः शत्रादेशः । शपः पित्त्वादनुदात्तत्वम् । शतुश्चादुपदेशाल्लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । महेम । मह पूजायाम् । रिषाम । रिष हिंसायाम् । व्यत्ययेन शः । तव । युष्मदस्मदोर्ङसीत्याद्युदात्तत्वं ॥ १ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०