मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९४, ऋक् २

संहिता

यस्मै॒ त्वमा॒यज॑से॒ स सा॑धत्यन॒र्वा क्षे॑ति॒ दध॑ते सु॒वीर्य॑म् ।
स तू॑ताव॒ नैन॑मश्नोत्यंह॒तिरग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥

पदपाठः

यस्मै॑ । त्वम् । आ॒ऽयज॑से । सः । सा॒ध॒ति॒ । अ॒न॒र्वा । क्षे॒ति॒ । दध॑ते । सु॒ऽवीर्य॑म् ।
सः । तू॒ता॒व॒ । न । ए॒न॒म् । अ॒श्नो॒ति॒ । अं॒ह॒तिः । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥

सायणभाष्यम्

यस्मै यजमानाय हे अग्ने त्वमायजसे देवानाभिमुख्येन यजसि स यजमानः साधति । स्वाभिलषितं साधयति । प्राप्नोतीत्यर्थः । किंच स यजमानोऽनर्वा शत्रुभिरप्रत्यृतः सन् क्षेति । निवसति । तथा सुवीर्यं शोभनवीर्योपेतं धनं दधते । धारयति । प्राप्नोतीत्यर्थः । धृत्वा च स यजमानस्तूताव । वर्धते । एनं यजमानमंहतिरार्तिर्दारिद्र्यं नाश्नोति । प्राप्नोति । अन्यत्पूर्ववत् ॥ साधति ॥ षिधु संराद्धौ । णिचि सिद्ध्यतेरपारलौकिके (पा ६-१-४९) इत्यात्वम् । छंदस्युभयथेति शप आर्धधातुकत्वाण्णेरनिटीति णि लोपः । क्षेति । क्षि निवासगत्योः । बहुलं छंदसीति विकरणस्य लुक् । दधते । दध धारणे । भौवादिकः । तूताव । तु इति वृद्ध्यर्थः सौत्रो धातुः । अस्माच्छांदसो लिट् । तुजादित्वा दभ्यासस्य दीर्घत्वम् । अश्नोति । व्यत्ययेन परस्मैपदम् । अंहतिः हंतेरंह च उ ४-६२ । इत्यतिप्रत्ययः । चिदित्यनुवृत्तेरंतोदात्तत्वं ॥ २ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०