मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९४, ऋक् ४

संहिता

भरा॑मे॒ध्मं कृ॒णवा॑मा ह॒वींषि॑ ते चि॒तय॑न्त॒ः पर्व॑णापर्वणा व॒यम् ।
जी॒वात॑वे प्रत॒रं सा॑धया॒ धियोऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥

पदपाठः

भरा॑म । इ॒ध्मम् । कृ॒णवा॑म । ह॒वींषि॑ । ते॒ । चि॒तय॑न्तः । पर्व॑णाऽपर्वणा । व॒यम् ।
जी॒वात॑वे । प्र॒ऽत॒रम् । सा॒ध॒य॒ । धियः॑ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥

सायणभाष्यम्

हे अग्ने त्वद्यागार्थमिध्ममिंधनसाधनमेकविंशतिदार्वात्मकं समित्समूहं भराम । संपादयाम । तदनंतरं ते तुभ्यं हवींषि चरुपुरोडाशादीन्यन्नानि वयं कृणवाम । करवाम । किं कुर्वंतः । पर्वणा पर्वणा प्रतिपक्षमावृत्ताभ्यां दर्शपूर्णमासाभ्यां चिंतयंतस्त्वां प्रज्ञापयंतः । स त्वं जीवातवेऽस्माकं जीवनौषधाय चिरकालावस्थानाय धियः कर्माण्यग्निहोत्रादीनि प्रतरं प्रकृष्टतरं साधय । निष्पादय । अन्यत्समानं ॥ चितयंतः । चिती संज्ञाने । संज्ञापूर्वकस्य विधेरनित्यत्वाल्लघूपधगुणाभावः । पर्वणा पर्वणा । नित्यवीप्सयोरिति वीप्सायां द्विर्भावः । तस्य परमाम्रेडितमिति परस्याम्रेडितसंज्ञायामनुदात्तं चेत्यनुदात्तत्वम् । प्रतरं तरबंतात्प्रशब्दात्क्रियाप्रकर्षे वर्तमानादमु च च्छंदसि (पा ५-४-१२) इत्यमुप्रत्ययः ॥ ४ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०