मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९४, ऋक् ५

संहिता

वि॒शां गो॒पा अ॑स्य चरन्ति ज॒न्तवो॑ द्वि॒पच्च॒ यदु॒त चतु॑ष्पद॒क्तुभि॑ः ।
चि॒त्रः प्र॑के॒त उ॒षसो॑ म॒हाँ अ॒स्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥

पदपाठः

वि॒शाम् । गो॒पाः । अ॒स्य॒ । च॒र॒न्ति॒ । ज॒न्तवः॑ । द्वि॒ऽपत् । च॒ । यत् । उ॒त । चतुः॑ऽपत् । अ॒क्तुऽभिः॑ ।
चि॒त्रः । प्र॒ऽके॒तः । उ॒षसः॑ । म॒हान् । अ॒सि॒ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥

सायणभाष्यम्

अस्याग्नेर्जंतवो जाता रश्मयो विशां सर्वेषां प्राणिनां गोपा गोपायितारो रक्षकाः संतश्चरंति । उद्गच्छंति । तदनंतरं यच्च द्विपत् द्विपत् मनुष्यादिकमस्ति उतापि च चतुष्पत् चतुष्पात् गवादिकं यदस्ति तदुभयमक्तुभिरंजकैरस्य रश्मिभिरक्तमाश्लिष्टमभूत् । हे अग्ने चित्रो विचित्रदीप्तियुक्तः प्रकेतो रात्रावंधकारावृतानां सर्वेषां प्रज्ञापयिता प्रदर्शयितोषस उपोदेवताया अपि महान् गुणैरधिकोऽसि । भवसि । उषास्तु रात्रेश्चरमभागे प्रकाशयति । अग्निस्तु सर्वस्यां रात्रौ प्रकाशयतीति तस्य गुणाधिक्यं ॥ गोपाः । गुपू रक्षणे । गुपूधूपविच्छीत्यायप्रत्ययः (पा ३-१-२८) अस्मात्क्विप् । अतो लोपः । वेरपृक्तलोपद्वलि लोपो बलीयानिति पूर्वं वलि लोपः । न चातो लोपस्य स्थानिवत्त्वम् । न पदांतेत्यादिना यलोपं प्रति तन्निषेधात् । द्विपत् । द्वौ पादावस्येति बहुव्रीहौ संख्यासुपूर्वस्य (पा ५-४-१४०) इति पादशब्दस्यांत्यलोपः समासांतः । अयस्मयादित्वेन भत्वे पादः पत् (पा ६-४-१३०) इति पद्भावः । एकदेशविकृतस्यानन्यवत्त्वात् । परि ३७ । द्वित्रिभ्यां पाद्दन्मूर्धसु (पा ६-२-१९७) इत्युत्तरपदांतोदात्तत्वम् । चतुष्पत् । पूर्ववत्समासांतः पद्भावश्च । इदुदुपधस्य चाप्रत्ययस्येति विसर्जनीयस्य षत्वम् । न संख्यायाः (फि २-५) इति चतुर् शब्द आद्युदात्तः । स एव बहुव्रिहिस्वरेण शिष्यते ॥ ५ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०