मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९४, ऋक् ७

संहिता

यो वि॒श्वतः॑ सु॒प्रती॑कः स॒दृङ्ङसि॑ दू॒रे चि॒त्सन्त॒ळिदि॒वाति॑ रोचसे ।
रात्र्या॑श्चि॒दन्धो॒ अति॑ देव पश्य॒स्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥

पदपाठः

यः । वि॒श्वतः॑ । सु॒ऽप्रती॑कः । स॒ऽदृङ् । असि॑ । दू॒रे । चि॒त् । सन् । त॒ळित्ऽइ॑व । अति॑ । रो॒च॒से॒ ।
रात्र्याः॑ । चि॒त् । अन्धः॑ । अति॑ । दे॒व॒ । प॒श्य॒सि॒ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥

सायणभाष्यम्

हे अग्ने यस्त्वं सुप्रतीकः शोभनांगः सन् विश्वतः सर्वस्मादपि सदृङ्ङसि अन्यूनः सदृशो भवसि स त्वं दूरे चित्सन् दूरेऽपि वर्तमानः सन् तळिदिव । अंतिकनामैतत् । अंतिके वर्तमान इवाति रोचसे । अतिशयेन दीप्यसे । तदुक्तं यास्केन । दूरेऽपि सन्नंतिक इव सन्दृश्यसे (नि ३-११) इति । रात्र्याश्चित् रात्रेरपि रात्रेः संबंधिनमंधो बहुलमंधकारमपि हे देव द्योतमानाग्नेऽति पश्यसि । अतीत्य प्रकाशसे । अन्यत्पूर्ववत् ॥ सुप्रतीकः । शोभनं प्रतीकोऽंगं यस्य । क्रत्वादयश्चेत्युत्तरपदाद्युदात्तत्वम् । सदृङ् । समानान्ययोश्चेति वक्तव्यं पा ३-२-६०-१ । इति समानोपपदाद्दृशेः क्विन् । दृक् दृशवतुषु (पा ६-३-८९) इति समानस्य सभावः । दृक्स्ववःस्वतवसां छंदसि (पा ७-१-८३) इति नुम् । संयोगांतलोपः । क्विन्प्रत्ययस्य कुरिति कुत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । रात्र्याः । रात्रेश्चाजसौ । पा सू ४-१-३१ । इति ङीप् ॥ ७ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१