मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९४, ऋक् ८

संहिता

पूर्वो॑ देवा भवतु सुन्व॒तो रथो॒ऽस्माकं॒ शंसो॑ अ॒भ्य॑स्तु दू॒ढ्य॑ः ।
तदा जा॑नीतो॒त पु॑ष्यता॒ वचोऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥

पदपाठः

पूर्वः॑ । दे॒वाः॒ । भ॒व॒तु॒ । सु॒न्व॒तः । रथः॑ । अ॒स्माकम् । शंसः॑ । अ॒भि । अ॒स्तु॒ । दुः॒ऽध्यः॑ ।
तत् । आ । जा॒नी॒त॒ । उ॒त । पु॒ष्य॒त॒ । वचः॑ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥

सायणभाष्यम्

हे देवा अग्न्यवयवभूताः सर्वे देवाः सुन्वतः सोमाभिषवं कुर्वतो यजमानस्य रथः पूर्व अन्येषामयजमानानां रथेभ्यो मुख्यो भवतु । आपि चास्माकं शंसः शंसनीयमभिशापरूपं पापं दूढ्यो दुर्धियः पापबुद्धीनस्मदनिष्ठाचरणपराञ्छत्रूनभ्यस्तु । अभिभवतु । तान्बाधताम् । तदिदं मद्वाक्यं हे देवा आ जानीत । आभिमुख्येनावगच्छत । उतापि च तद्वचोऽस्मदीयं वचनं तदर्थाचरणेन पुष्यक । प्रवर्धयत । हे सर्वदेवात्मकाग्ने सख्य इत्यादि पूर्ववत् ॥ सुव्वतः । शतुरनुम इति विभक्तेरुदात्तत्वम् । शंसः । शंस्यते कीर्त्यत इति शंसोऽभिशापः । कर्मणि घञ् । ञित्त्वादाद्युदात्तत्वम् । दूढ्यः । दुष्टं ध्यायंतीति दुर्धियः । ध्यै चिंतायामित्यस्मात् क्विप्चेति क्विप् । दृशिग्रहणानुवृत्तेस्तत्य च विध्यंतरोपसंग्रहार्थत्वात्संप्रसारणम् । पृषोदरादिषु ध्यै चेति पाठाद्दुरो रेफस्योत्वं उत्तरपाददेः ष्टुत्वं च ॥ ८ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१