मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९४, ऋक् ९

संहिता

व॒धैर्दु॒ःशंसाँ॒ अप॑ दू॒ढ्यो॑ जहि दू॒रे वा॒ ये अन्ति॑ वा॒ के चि॑द॒त्रिणः॑ ।
अथा॑ य॒ज्ञाय॑ गृण॒ते सु॒गं कृ॒ध्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥

पदपाठः

व॒धैः । दुः॒ऽशंसा॑न् । अप॑ । दुः॒ऽध्यः॑ । ज॒हि॒ । दू॒रे । वा॒ । ये । अन्ति॑ । वा॒ । के । चि॒त् । अ॒त्रिणः॑ ।
अथ॑ । य॒ज्ञाय॑ । गृ॒ण॒ते । सु॒ऽगम् । कृ॒धि॒ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥

सायणभाष्यम्

हे अग्ने त्वं वधैर्हननसाधनैरायुधैर्दुःशंसान्दुःखेन कीर्तनीयान्दूढ्योदुर्धियः पापबुद्दीनप जहि । वधं प्रापय । ये केचित् ये के चन दूरे विप्रकृष्टदेशे वांतिके समापदेशे वा वर्तमाना अत्रिणोऽत्तारो राक्षसादयो विद्यंते तान्दुर्धियोऽप जहीत्यर्थः ॥ अथानंतरं यज्ञाय यज्ञपतये गृणते त्वां स्तुवते यजमानाय सुगं शोभनं मार्गं कृधि । कुरु । आन्यत्पूर्ववत् ॥ वधैः । हनश्च वध इति हंतेः करणेऽप् वधादेशश्च । स चादंतोऽंतोदात्तः । तस्यातो लोपे सत्युदात्तनिवृत्तिस्वरेण प्रत्ययस्योदात्तत्वम् । दुःशंसान् । ईषद्दुःसुष्विति कर्मणि खल् । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । जहि । लोट हिः । हंतेर्ज इति जादेशः । तस्यासिद्धवदत्राभादित्यसिद्थत्वाद्धेर्लुगभावः । अंति । अंतिकस्य कादिलोपो बहुलमिति कलोपः । अत्रिणः । अदेस्त्रिनि चेति त्रिनिप्रत्ययः इकारो नकारपरित्राणार्थः । गृणते । शतुरनुम इति विभक्तेरुदात्तत्वम् । सुगम् । सुदुरोरधिकरणे । पा ३-२-४८-३ । इति गमेर्डः । कृधि । श्रुशृणुपृकृवृभ्यश्छंदसीति हेर्धिः । बहुलं छंदसीति विकरणस्य लुक् ॥ ९ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१