मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९४, ऋक् १०

संहिता

यदयु॑क्था अरु॒षा रोहि॑ता॒ रथे॒ वात॑जूता वृष॒भस्ये॑व ते॒ रवः॑ ।
आदि॑न्वसि व॒निनो॑ धू॒मके॑तु॒नाग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥

पदपाठः

यत् । अयु॑क्थाः । अ॒रु॒षा । रोहि॑ता । रथे॑ । वात॑ऽजूता । वृ॒ष॒भस्य॑ऽइव । ते॒ । रवः॑ ।
आत् । इ॒न्व॒सि॒ । व॒निनः॑ । धू॒मऽके॑तुना । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥

सायणभाष्यम्

हे अग्ने अरुषारोचमानौ रोहिता लोहितवर्णौ । रोहित इत्यग्नेरश्वस्याख्या । रोहितोऽग्नेरिति दर्शनात् । रोहितेन त्वाग्निर्देवतां गमयतु । तै सं १-६-४-३ । इति मंत्रवर्णाच्च । एते वै देवाश्वाः । तै । सं १-७-४-३ । इति हि तत्र व्याख्यातम् । वातजूता वातस्य वायोर्जूतं जवो वेग इव वेगो ययोस्तौ । ईदृशावश्वौ रथे यद्यदायुक्थाः अयोजयः तदानीं वनानि दहतस्ते तव रवः शब्दो वृषभस्येव दृप्तस्य महोक्षस्य शब्द इव गंभीरो भवति । आदनंतरं वनिनो वनसंबद्धान्वृक्षान्धूमकेतुना धूमः केतुः प्रज्ञापको यस्य तादृशेन रश्मिनेन्वसि । व्याप्नोषि । अन्यत्पूर्ववत् ॥ अयुक्थाः । युजिर् योगे । लुङिझलो झलीति सकारलोपः । अरुषेत्यादिद्विवचनेषु सुपां सुलुगित्याकारः । रवः । रु शब्दे । ॠदोरबिति भावेऽप् । इन्वसि । इवि व्याप्तौ । भौवादिकः । इदित्त्वान्नुम् ॥ १० ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१