मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९४, ऋक् १३

संहिता

दे॒वो दे॒वाना॑मसि मि॒त्रो अद्भु॑तो॒ वसु॒र्वसू॑नामसि॒ चारु॑रध्व॒रे ।
शर्म॑न्त्स्याम॒ तव॑ स॒प्रथ॑स्त॒मेऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥

पदपाठः

दे॒वः । दे॒वाना॑म् । अ॒सि॒ । मि॒त्रः । अद्भु॑तः । वसुः॑ । वसू॑नाम् । अ॒सि॒ । चारुः॑ । अ॒ध्व॒रे ।
शर्म॑न् । स्या॒म॒ । तव॑ । स॒प्रथः॑ऽतमे । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥

सायणभाष्यम्

हे अग्ने देवो द्योतमानस्त्वं देवानां सर्वेषामद्भुतो महान्मित्रोऽसि प्रौढः सखा भवसि । तथा चारुः शोभस्त्वमध्वरे यज्ञे वसूनां सर्वैेषां धनानां वसुरसि । निवासयिता भवसि । अतोऽस्माकं वसूनि देहीत्यर्थः । किंच सप्रथस्तमे सर्वतः पृथुतमेऽतिशयेन विस्तीर्णे तव त्वत्संबंधिनि शर्मणि यज्ञगृहे स्याम । वर्तमाना भवेम । अन्यत्पूर्ववत् ॥ शर्मन् । सुपां सुलुगिति सप्तम्या लुक् ॥ १३ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२