मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९४, ऋक् १४

संहिता

तत्ते॑ भ॒द्रं यत्समि॑द्ध॒ः स्वे दमे॒ सोमा॑हुतो॒ जर॑से मृळ॒यत्त॑मः ।
दधा॑सि॒ रत्नं॒ द्रवि॑णं च दा॒शुषेऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥

पदपाठः

तत् । ते॒ । भ॒द्रम् । यत् । सम्ऽइ॑द्धः । स्वे । दमे॑ । सोम॑ऽआहुतः । जर॑से । मृ॒ळ॒यत्ऽत॑मः ।
दधा॑सि । रत्न॑म् । द्रवि॑णम् । च॒ । दा॒शुषे॑ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥

सायणभाष्यम्

हे अग्ने ते त्वत्संबंधि तत्खलु भद्रं भजनीयम् । प्रशस्तमित्यर्थः । किं पुनस्थत् । स्वे दमे स्वकीय उत्तरवेदिलक्षणे निवासस्थाने । तस्यैष स्वोलोकोयदुत्तरवेदी नाभिः । ऐ ब्रा १-२८ । इति श्रुतेः । तस्यामुत्तरवेद्यां समिद्धः सम्यगिद्धः प्रज्वलितः सोमाहुतो हुतेन सोमरसेन संतर्पितः सन् जरसे । ऋत्विग्भिः स्तूयस इति यदस्ति तद्भद्रमित्यर्थः । एवं प्रशस्तस्त्वं मृळयत्तमोऽतिशयेनास्माकं सुखयिता भूत्वा रत्नं रमणीयं कर्मफलं द्रविणं धनं च दाशुषे हविर्दत्तवते यजमानाय दधासि । प्रयच्छसि । अन्यत्समानं ॥ समिध्दः । ञिइन्धी दीप्तौ । कर्मणि निष्ठा । श्वीदितो निष्ठायामितीट् प्रतिषेधः । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । सोमाहुतः । सोमेनाहुतः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । जरसे । जरतिः स्तुतिकर्मा । व्यत्ययेन कर्मणि कर्तृप्रत्ययः । यद्वृत्तयोगादनिघातः । दधासि । अनुदात्ते चेत्यभ्यस्तस्याद्युदात्तत्वं ॥ १४ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२