मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९४, ऋक् १५

संहिता

यस्मै॒ त्वं सु॑द्रविणो॒ ददा॑शोऽनागा॒स्त्वम॑दिते स॒र्वता॑ता ।
यं भ॒द्रेण॒ शव॑सा चो॒दया॑सि प्र॒जाव॑ता॒ राध॑सा॒ ते स्या॑म ॥

पदपाठः

यस्मै॑ । त्वम् । सु॒ऽद्र॒वि॒णः॒ । ददा॑शः । अ॒ना॒गाः॒ऽत्वम् । अ॒दि॒ते॒ । स॒र्वऽता॑ता ।
यम् । भ॒द्रेण॑ । शव॑सा । चो॒दया॑सि । प्र॒जाऽव॑ता । राध॑सा । ते । स्या॒म॒ ॥

सायणभाष्यम्

हे सुद्रविणः शोभनधनादितेऽखंडनीयाग्ने सर्वताता सर्वासु कर्मततिषु । यद्वा सर्वेषु यज्ञेषु वर्तमानाय यस्मै यजमानायानागास्त्वमपापत्वं पापराहित्येन कर्मार्हतां त्वं ददाशः प्रयच्छसि स यजमानः समृद्धो भवति । यं च यजमानं भद्रेण भजनीयेन कल्याणेन शवसा बलेन चोदयासि संयोजयसि सोऽपि समृद्धो भवति । वयं च स्तोतारः प्रजावता प्रजाभिः पुत्रपौत्रैर्युक्तेन ते राधसा त्वया दत्तेन धनेन युक्ताः स्याम । भवेम ॥ सुद्रविणः सोभनानि द्रविणानि धनानि यस्य । द्रु गतौ । द्रुदक्षिभ्यामिनन् (उ २-५०) द्रविणशब्दस्यांते मकारोपजनश्छांदसः । ददाशः । दाशृ दाने । लेट्यडागमः । बहुलं छंदसीति शपः श्लुः । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । सर्वताता । सर्वदेवात्तातिलिति स्वार्थे तातिल्प्रत्ययः । यास्कपक्षेतु सर्वाः स्तुतयो येषु यागेष्विति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वर्णव्यापत्त्यात्वम् । उभयत्रापि सुपां सुलगिति सप्तम्या डादेशः । चोदयासि । चुद प्रेरणे । लेट्याडागमः ॥ १५ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२