मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९५, ऋक् २

संहिता

दशे॒मं त्वष्टु॑र्जनयन्त॒ गर्भ॒मत॑न्द्रासो युव॒तयो॒ विभृ॑त्रम् ।
ति॒ग्मानी॑कं॒ स्वय॑शसं॒ जने॑षु वि॒रोच॑मानं॒ परि॑ षीं नयन्ति ॥

पदपाठः

दश॑ । इ॒मम् । त्वष्टुः॑ । ज॒न॒य॒न्त॒ । गर्भ॑म् । अत॑न्द्रासः । यु॒व॒तयः॑ । विऽभृ॑त्रम् ।
ति॒ग्मऽअ॑नी॑कम् । स्वऽय॑शसम् । जने॑षु । वि॒ऽरोच॑मानम् । परि॑ । सी॒म् । न॒य॒न्ति॒ ॥

सायणभाष्यम्

अतंद्रासः स्वकार्ये जगतः पोषणेऽनलसा आलस्यरहिताः । जागरूका इत्यर्थः । युवतयो नित्यतरुण्यः । जरामरणरहिता इत्यर्थः । एवंभूता दश प्राच्याद्या दससंख्याका दिशो गर्भं मेघेषु गर्भरूपेणांतर्वर्तमानं त्वष्टुर्दीप्तान्मध्यमाद्वायोः सकाशाज्जनयंत । वैद्युतमग्निमुत्पादयंति । यद्वा । दशसंख्याका अंगुलयस्त्वष्टुर्दीप्तस्य वायोर्गर्भं स्वकारणभूते वायौ गर्भरूपेण वर्तमानम् । अग्नेर्हि वायुः कारणं वायुरग्निरिति श्रुतेः । एवंभूतमिममग्नि मरण्योः सकाशाज्ङनयंत । उत्पादयंति । कीदृश्योऽंगुलयः । अतंद्रासः पुनःपुनः कर्मकरण आलस्यरहिताः । युवतयोऽपृथक्कृत्य वर्तमानाः । एकस्मिन्पाणौ संहत्यावस्थित्नात्यर्थः । कीदृशमग्निम् । विभृत्रम् । सर्वेषु भूतेषु विहृतम् । जाठररूपेण विभज्यइवर्तमानमित्यर्थः । तिग्मानीकं तीक्ष्णमुखं तीक्ष्णतेजसम् । अत एव हि वैद्युतागि दर्शने दृष्टिः प्रतिह्यन्यते । स्वयशसम् । स्वायत्तयशस्कम् । अतिशयेन यशस्विनमित्यर्थः । जनेषु जनपदेषु सर्वदेशेषु विरोचमानं विशेषेण दीप्यमानम् । बहूनामुपकारकमित्यर्थः । एवंभूतं सीमेनमग्निं परि परितः सर्वतो नयंति । स्वस्वोपकाराय सर्वे जनाः स्वकीयं देशं प्रापयंति ॥ त्वष्टुः त्विष दीप्तौ । नप्तृनेष्टृत्वष्टृु इत्यादिना (उ २-९६) उणादिषु तृनंतो निपातितः । अतो नित्त्वादाद्युदात्तत्वम् । विभृत्रम् । हृञ् हरणे । अस्मात्कर्मणि निष्ठा । छांदसो रेफोपजनः । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । हृग्रहोर्भ इति भत्वम् । यद्वा । औणादिकः क्त्रप्रत्ययः । तिग्मानीकम् । तिज निशाने । युजिरुचितिजां कुत्वं च (उ १-१४५) इति मक् । अन प्राणने । अनिदृशिभ्यां चेति कीकन् । तिग्मं तीक्ष्ण मनीकं यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । परि षीम् । पूर्वपदादिति षत्वं ॥ २ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः