मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९५, ऋक् ३

संहिता

त्रीणि॒ जाना॒ परि॑ भूषन्त्यस्य समु॒द्र एकं॑ दि॒व्येक॑म॒प्सु ।
पूर्वा॒मनु॒ प्र दिशं॒ पार्थि॑वानामृ॒तून्प्र॒शास॒द्वि द॑धावनु॒ष्ठु ॥

पदपाठः

त्रीणि॑ । जाना॑ । परि॑ । भू॒ष॒न्ति॒ । अ॒स्य॒ । स॒मु॒द्रे । एक॑म् । दि॒वि । एक॑म् । अ॒प्ऽसु ।
पूर्वा॑म् । अनु॑ । प्र । दिश॑म् । पार्थि॑वानाम् । ऋ॒तून् । प्र॒ऽशास॑त् । वि । द॒धौ॒ । अ॒नु॒ष्ठु ॥

सायणभाष्यम्

अस्याग्नेस्त्रीणि त्रिसंख्याकानि जाना जननानि जन्मानि परि भूषंति । परितः सर्वतोऽलंकुर्वंति । यद्वा । परीत्येष समित्येतस्य स्थाने । अस्याग्नेस्त्रीणि जन्मानि संभवंति । समुद्रेऽब्दौ वडवानलरूपेणैकं जन्म । दिवि द्युलोक आदित्यात्मनैकम् । अप्सु । आप इत्यंतरिक्षनाम । अंतरिक्षे वैद्युताग्निरूपेणैकम् । एवमग्निस्त्रेधात्मानं विभज्य त्रिषु स्थानेषु वर्तत इत्यर्थः । तत्रादित्यात्मना वर्तमानाः सोऽग्निर्ऋतून्वसंताद्यान् षडृतून्प्रशासत् प्रकर्षेण विभक्ततया ज्ञापयन्पार्थिवानां पृथिव्याः संबंधिनां सर्वेषां प्राणिनां पूर्वां प्राचीं प्रदिशं प्रकृष्टां ककुभम् । अनुष्ठ्वित्येतदव्ययं सम्यक् शब्दसमानार्थं सुष्ठ्विति यथा । सम्यगनुक्रमेण वि दधौ । कृतवान् । स्वतो भेदरहितयोरखंडयोर्दिक्कालयोः प्राच्यादिभेदो वसंतादिभेदश्च सूर्यगत्या निष्पाद्यते । अतः सूर्य एव तयोः कर्तेत्यर्थः ॥ जाना । जनी प्रादुर्भावे । घञ् । कर्षात्वत इत्यंतोदात्तत्वे प्राप्ते वृषादेराकृतिगणत्वादाद्युदात्तत्वम् । शेश्छंदसि बहुलमिति शेर्लोपः । भूषंति । भूष अलंकारे । भौवादिकः । यद्वा । भवतेर्लेट सिब्बहुलं लेटीति सिप् । आगमानुशासनस्यानित्यत्वादिडभावः, संज्ञापूर्वकस्य विधेरनित्यत्वाद्गुणाभावश्च । दिवि । अप्सु । उभयत्रोडिदमिति विभक्तेरुदात्तत्वम् । पार्थिवानाम् । पृथिव्या ञाञाविति प्राग्दीव्यतीयोऽञ् प्रत्ययः । प्रशासत् । शासु अनुशिष्टौ । अस्माल्लटः शतृ । जक्षित्यादयः षडित्यभ्यस्तसंज्ञायां नाभ्यस्ताच्छतुरिति नुम्प्रतिषेधः । कृदुत्तरपदप्रकृतिस्वरत्वम् । अनुष्ठु । अपदुःसुषु स्थः (उ १-२६) इति विधीयमानः कुप्रत्ययो बहुलवचनात्तिष्ठतेरनुपूर्वदपि भवति ॥ ३ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः