मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९५, ऋक् ४

संहिता

क इ॒मं वो॑ नि॒ण्यमा चि॑केत व॒त्सो मा॒तॄर्ज॑नयत स्व॒धाभि॑ः ।
ब॒ह्वी॒नां गर्भो॑ अ॒पसा॑मु॒पस्था॑न्म॒हान्क॒विर्निश्च॑रति स्व॒धावा॑न् ॥

पदपाठः

कः । इ॒मम् । वः॒ । नि॒ण्यम् । आ । चि॒के॒त॒ । व॒त्सः । मा॒तॄः । ज॒न॒य॒त॒ । स्व॒ऽधाभिः॑ ।
ब॒ह्वी॒नाम् । गर्भः॑ । अ॒पसा॑म् । उ॒पऽस्था॑त् । म॒हान् । क॒विः । निः । च॒र॒ति॒ । स्व॒धाऽवा॑न् ॥

सायणभाष्यम्

हे ऋत्विग्यजमाना निण्यं निर्णीतम् । अंतर्हितनामैतस् । अबादिषु गर्भरूपेणांचर्हितम् । तथा च मंत्रांतरम् । गर्भो यो अपां गर्भो वनानां गर्भश्च स्थातां गर्भश्चरथाम् । ऋग्वे १-७०-२ । इति । एवंभूतमिममग्निं वो युष्माकं मध्ये क आचिकेत । को जानाति । न कोऽपीत्यर्थः । सोऽयमग्निर्वत्सो मेघस्थानामपां वैद्युताग्निरूपेण पुत्रस्थानीयः सन् मातृस्तस्य मातृस्थानीयानि वृष्ट्युदकानि स्वधाभिर्हविर्लक्षणैरन्नैर्जनयत । उत्पादयति । तथा च स्मर्यते । अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । अदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः । मनु ३-७६ । इति । अपि च बह्वीनां मेघस्थानामपां गर्भो वैद्युतरूपेण गर्भस्थानीयः सोग्निरपसामुपस्थात् समुद्रान्निश्चरति । औषसाग्निरूपेणादित्यः सन्निर्गच्छति । कीदृशः । महान् तेजसा प्रौढः । कविः । क्रांतदर्शी । स्वधावान् हविर्लक्षणान्नवान् । एक एवाग्निर्होमनिष्पादकलक्षणेन पार्थिवरूपेण वैद्युतात्मनौषसरूपेणादित्यात्मना च विभज्य वर्तत इत्यर्थः ॥ चिकेत । कित ज्ञाने । छांदसो लिट् । जनयत । जनी जृष्कसुरंजोऽमंताश्च । धा १९-६३-६७ । इति । मित्त्वान्मितां ह्रस्व इति ह्रस्वत्वम् । पूर्ववच्छांदसो लङ् । बह्वीनाम् । नित्यं छंदसि पा ४-१-४६ । इति बहुशब्दाङ्ङीष् । ङ्याश्छंदसि बहुलम् (पा ६-१-१७८) इति नाम उदात्तत्वम् । अपसाम् । आप्लृ व्याप्तौ । आपः कर्माख्यायां ह्रस्वो नुट्च वा (उ ४-२०७) इति बहुलवचनादकर्माख्यायामप्याप्नोतेरसिप्रत्ययो ह्रस्वश्च । उपस्थात् । उपतिष्ठंत्याप्रोऽत्रेत्युपस्थः । आतश्चोपसर्ग इति कृत्यल्युटो बहुलमिति बहुलवचनादधिकरणे कप्रत्ययः । मरुद्वृधादित्वात्पूर्वपदांतोदात्तत्वं ॥ ४ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः