मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९५, ऋक् ५

संहिता

आ॒विष्ट्यो॑ वर्धते॒ चारु॑रासु जि॒ह्माना॑मू॒र्ध्वः स्वय॑शा उ॒पस्थे॑ ।
उ॒भे त्वष्टु॑र्बिभ्यतु॒र्जाय॑मानात्प्रती॒ची सिं॒हं प्रति॑ जोषयेते ॥

पदपाठः

आ॒विःऽत्यः॑ । व॒र्ध॒ते॒ । चारुः॑ । आ॒सु॒ । जि॒ह्माना॑म् । ऊ॒र्ध्वः । स्वऽय॑शाः । उ॒पऽस्थे॑ ।
उ॒भे इति॑ । त्वष्टुः॑ । बि॒भ्य॒तुः॒ । जाय॑मानात् । प्र॒ती॒ची इति॑ । सिं॒हम् । प्रति॑ । जो॒ष॒ये॒ते॒ इति॑ ॥

सायणभाष्यम्

आसु मेघस्थास्वप्सु वैद्युतात्मना वर्तमानोऽग्निश्चारुः शोभनदीप्तिः सन् आविष्ट्यो वर्धते । आविर्भूतः प्रकाशमानो वृद्धिं प्राप्नोति । किं कुर्वन् । जिह्वानां कुटिलानां मेघेषु तिर्यगवस्थितानां तासामपामुपस्थ उत्संगे स्वयशाः स्वायत्तयशस्तोऽग्निरूर्द्ध्व ऊर्ध्वज्वलनः सन् । स्वकारणभूतास्वप्सु तिर्युगवस्थितास्वपि स्वयमूर्ध्वं ज्वलन्नित्यर्थः । तदुक्तं वैशेषिकैः । अग्नेरूर्ध्वज्वलनं वायोस्तिर्यक्पवनम् । अणुमनसोराद्यं कर्मैतान्यदृष्टकारितानीति । अपि च । उभे द्यावापृथिव्यौ त्वष्टुर्दीप्ताज्जायमानादुत्पद्यमानात्तस्मादग्नेर्बिभ्यतुः । भयं प्रापतुः । तदनंतरमुत्पन्नं सिंहं सहनशीलमभिभवनशीलं तमग्निं प्रतीची प्रत्यंचंत्यौ प्रतिगच्छंत्यावाभिमुख्येन प्राप्नुवंत्यौ जोषयेते । सेवेते । यास्कस्त्वाह । आविरावेदनात्तत्त्यो वर्धते चारुरासु चारु चरतेर्जिह्वं जिहीतेरूर्द्व उच्छ्रितो भवति स्वयशा आत्मयशा उपस्थ उपस्थान उभे त्वष्टुर्भिर्भ्यतुर्जायमानात्प्रतीची सिंहं प्रति जोषयेते द्यावापृथिव्याविति वाहोरात्रे इति वारणी इति वापि चैते प्रत्यक्ते सिंहं सहनं प्रत्यासेवेते (नि ८-१५) इति ॥ आविष्ट्यः आविः शब्दाच्छंदसि । पा ४-२-१०४-१ । इति शैषिकस्त्यप् । ह्रस्वात्तादौ तद्धिते (पा ८-३-१०१) इति षत्वम् । आसु । इदमोऽन्वादेश इत्यशादेशोऽनुदात्तः । विभक्तिश्च सुप्त्वादनुदात्तेति सर्वानुदात्तत्वम् । न चोडिदमिति विभक्तेरुदात्तत्वं शंकनीयम् । अंतोदात्तदिदंशब्दाद्दि तद्विधीयते । प्रतीची । प्रतिपूर्वादंचतेर्ऋत्विगित्यादिना क्विन् । अनिदितामिति नलोपः । अंचतेश्चोपसंख्यानमिति ङीप् । अच इत्याकारलोपे चाविति दीर्घत्वम् । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम् । वा छंदसीति पूर्व सवर्णदीर्घः । जोषयेते । जुषी प्रीतिसेवनयोः । स्वार्थे णिच् ॥ ५ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः