मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९५, ऋक् ७

संहिता

उद्यं॑यमीति सवि॒तेव॑ बा॒हू उ॒भे सिचौ॑ यतते भी॒म ऋ॒ञ्जन् ।
उच्छु॒क्रमत्क॑मजते सि॒मस्मा॒न्नवा॑ मा॒तृभ्यो॒ वस॑ना जहाति ॥

पदपाठः

उत् । य॒म्य॒मी॒ति॒ । स॒वि॒ताऽइ॑व । बा॒हू इति॑ । उ॒भे इति॑ । सिचौ॑ । य॒त॒ते॒ । भी॒मः । ऋ॒ञ्जन् ।
उत् । शु॒क्रम् । अत्क॑म् । अ॒ज॒ते॒ । सि॒मस्मा॑त् । नवा॑ । मा॒तृऽभ्यः॑ । वस॑ना । ज॒हा॒ति॒ ॥

सायणभाष्यम्

सवितेव सर्वस्य प्रेरक आदित्यो यथा बाहू बाहुस्थानीयान्रश्मीनुद्गमयति तथायमौषसोऽग्निः स्वकीयानि तेजांस्युद्यंयमिति । भृशमुद्यतान्यूर्द्ध्वाभिमुखानि करोति । तदनंतरं भीमः सर्वेषां भयंकरोऽग्निरुभे सिचावुभे द्यावापृथिव्यौ ऋंजन् प्रसाधयन् स्वतेजसालंकुर्वन्यतते । स्वव्यापारे प्रयतते । तदनंतरं सिमस्मात्सर्वस्माद्भूतजाताच्छुक्रं दीप्तमत्कं सारभूतं रसमुदजते । रश्मिभिरूर्ध्वमादत्ते । अपि च मातृभ्यः स्वमातृस्थानीयेभ्यो वृष्ट्युदकेभ्यः सकाशान्नवा नवानि प्रत्यग्राणि वसना सर्वस्य जगत आच्छादकानि तेजांसि जहाति । उद्गमयति ॥ यंयमीति । यम उपरमे । अस्माद्यङ् लुकि नुगतोऽनुनासिकांतस्य (पा ७-४-८५) इत्यभ्यासस्य नुगागमः । एतच्चानुस्वारोपलक्षणार्थम् । सिचौ । षिचक्षरणे । सिंचतः फलेन संयोजयत इति सिचौ द्यावापृथिव्यौ । क्विप्चेति क्विप् । यतते । यती प्रयत्ने । अत्कम् । अत सातत्यगमने । इण् भीकापाशल्यतिमर्चिभ्यः कन् (उ ३-४३) इति कन् । नित्त्वादाद्युदात्तत्वम् । सिमस्मात् । सिमशब्दः सर्वशब्दपर्यायः । नवा वसना । उभयत्र शेश्छंदसि बहुलमिति शेर्लोपः । जहाति । ओहाक् त्यागे । जौहोत्यादिकः ॥ ७ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः