मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९५, ऋक् ९

संहिता

उ॒रु ते॒ ज्रय॒ः पर्ये॑ति बु॒ध्नं वि॒रोच॑मानं महि॒षस्य॒ धाम॑ ।
विश्वे॑भिरग्ने॒ स्वय॑शोभिरि॒द्धोऽद॑ब्धेभिः पा॒युभि॑ः पाह्य॒स्मान् ॥

पदपाठः

उ॒रु । ते॒ । ज्रयः॑ । परि॑ । ए॒ति॒ । बु॒ध्नम् । वि॒ऽरोच॑मानम् । म॒हि॒षस्य॑ । धाम॑ ।
विश्वे॑भिः । अ॒ग्ने॒ । स्वय॑शःऽभिः । इ॒द्धः । अद॑ब्धेभिः । पा॒युऽभिः॑ । पा॒हि॒ । अ॒स्मान् ॥

सायणभाष्यम्

महिषस्य महतस्ते तव ज्रयो राक्षसादीनामभिभावुकं विरोचमानं विशेषेण दीप्यमानमुरु विस्तीर्णं धाम तेजो बुध्नमपां मूलभूतमंतरिक्षं पर्येति । परितो व्याप्नोति । हे अग्ने । इद्धोऽस्माभिः प्रज्वलितः सन् विश्वेभिः सर्वैः स्वयशोभिः स्वकीयैरात्मीयैस्तेजोभिरस्मान्पाहि । रक्ष । कीदृशैः । अदब्धेभी राक्षसादिभिरहिंसितैः । पायुभिः । पालनशक्तैः ॥ ज्रयः । जि । ज्रि अभिभवे । असुन् । अदब्धेभिः । दन्भु दंभे । निष्ठायां यस्य विभाषेतीट्प्रतिषेधः । अनिदितामिति नलोपः । झषस्तथोर्धोऽध इति धत्वम् । नञ्समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । बहुलं छंदसीति भिस ऐसभावः ॥ ९ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः