धन्व॒न्त्स्रोतः॑ कृणुते गा॒तुमू॒र्मिं शु॒क्रैरू॒र्मिभि॑र॒भि न॑क्षति॒ क्षाम् ।
विश्वा॒ सना॑नि ज॒ठरे॑षु धत्ते॒ऽन्तर्नवा॑सु चरति प्र॒सूषु॑ ॥
धन्व॑न् । स्रोतः॑ । कृ॒णु॒ते॒ । गा॒तुम् । ऊ॒र्मिम् । शु॒क्रैः । ऊ॒र्मिऽभिः॑ । अ॒भि । न॒क्ष॒ति॒ । क्षाम् ।
विश्वा॑ । सना॑नि । ज॒ठरे॑षु । ध॒त्ते॒ । अ॒न्तः । नवा॑सु । च॒र॒ति॒ । प्र॒ऽसूषु॑ ॥
धन्वन् नभसि गातुं गमनशीलमूर्मिमुदकसंघमयमग्निः स्रोतः कृणुते । स्रोतसा प्रवाहरूपेण युक्तं करोति । शुक्रैर्निर्मलैरूर्मिभिस्तैर्जलसंघैः क्षां भूमिमभि नक्षति । अभिव्याप्नोति । स्वतेजोभिरंतरिक्षे जलसंघमुत्पाद्य तेन सर्वां भूमिमभिवर्षतीत्यर्थः । पश्चाद्विश्वा सर्वाणि सनानि । अन्ननामैतत् । सर्वाण्यन्नानि जठरेषु धत्ते । अवस्थापयति । तदर्थं नवासु वृष्ट्यनंतरमुत्पन्नासु प्रसूषु सर्वेषामन्नानां प्रसवित्रीष्वोषधीषु पाकार्थमंतश्चरिति । मध्ये वर्तते । अंतरवस्थितेन भौमाग्निना सर्वा ओषधयः पच्यंते ॥ धन्वन् । रिवि रवि धवि गत्यर्थाः । इदित्वान्नुम् । कनिन्युवृषीत्यादिना कनिन् । सुपां सुलुगिति सप्तम्या लुक् । धन्वांतरिक्षं धन्वंत्यस्मादाप इति यास्कः (नि ५-५) नित्त्वादाद्युदात्तत्वम् । गातुम् । गाङ् गतौ । कमिमनिजनीत्यादिना तुप्रत्ययः । ऊर्मिं अर्तेरूचेति मिप्रत्ययः । नक्षति । नक्ष गतौ ॥ १० ॥