मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९५, ऋक् ११

संहिता

ए॒वा नो॑ अग्ने स॒मिधा॑ वृधा॒नो रे॒वत्पा॑वक॒ श्रव॑से॒ वि भा॑हि ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒ः सिन्धु॑ः पृथि॒वी उ॒त द्यौः ॥

पदपाठः

ए॒व । नः॒ । अ॒ग्ने॒ । स॒म्ऽइधा॑ । वृ॒धा॒नः । रे॒वत् । पा॒व॒क॒ । श्रव॑से । वि । भा॒हि॒ ।
तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥

सायणभाष्यम्

हे पावक शोधकाग्ने समिधास्माभिर्दत्तेन समिदादिद्रव्येणैवैवमुक्तप्रकारेण वृधानो वर्धमानः सन् रेवत् रयिमते धनयुक्ताय नोऽस्माकं श्रवसेऽन्नाय वि भाहि । विशेषेण दीप्यस्व । अस्माकं तादृशमन्नं प्रयच्छेत्यर्थः । नोऽस्माकं तदन्नं मित्रादयो ममहंताम् । पूजयंताम् । रक्षंत्वित्यर्थः । उतशब्दः समुच्यये । पृथिवी च द्यौश्चेत्यर्थः ॥ एव । निपातस्य चेति संहितायां दीर्घः । वृधानः । वृधेरंतर्भावितण्यर्थात्ताच्छीलिकश्चानश् । बहुलं छंदसीति शपो लुक् । चानशः सार्वधातुकत्वेन ङित्त्वाल्लघूपदगुणाभावः । लसार्वधातुकत्वाभावेनानुदात्तत्वाभावे चित्स्वर एव शिष्यते । रेवत् । रयिशब्दान्मतुप् । रयेर्मतौ बहुलमिति संप्रसारणम् । छंदसीर इति मतुपो वत्वम् । रेशब्दाच्च । का ६ १-१७६-१ । इति मतुप उदात्तत्वम् । सुपां सुलुगिति चतुर्थ्या लुक् ॥ ११ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः