मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९६, ऋक् १

संहिता

स प्र॒त्नथा॒ सह॑सा॒ जाय॑मानः स॒द्यः काव्या॑नि॒ बळ॑धत्त॒ विश्वा॑ ।
आप॑श्च मि॒त्रं धि॒षणा॑ च साधन्दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥

पदपाठः

सः । प्र॒त्नऽथा॑ । सह॑सा । जाय॑मानः । स॒द्यः । काव्या॑नि । बट् । अ॒ध॒त्त॒ । विश्वा॑ ।
आपः॑ । च॒ । मि॒त्रम् । धि॒षणा॑ । च॒ । सा॒ध॒न् । दे॒वाः । अ॒ग्निम् । धा॒र॒य॒न् । द्र॒वि॒णः॒ऽदाम् ॥

सायणभाष्यम्

स प्रत्नथेति नवर्चं तृतीयं सूक्तं कुत्सस्यार्षं त्रैष्वुभम् । द्रविणोदस्त्व गुणविशिष्टोऽग्निः शुद्धाग्निर्वा देवता । तथा चानुक्रांतम् । स प्रत्नथा नव द्रविणोदस इति ॥ प्रातरनुवाकाश्विनशस्त्रयोः पूर्वसूक्तेन सहोक्तः सूक्तविनियोगः ॥ व्यूढस्य दशरात्रस्य षष्ठेऽहन्याग्निमारुत इदं सूक्तं जातवेदस्यनिविद्धानम् । व्यूळ्हश्चेदिति खंडे सूत्रितम् । स प्रत्नथेत्याग्निमारुतम् (आ ८-८) इति । स प्रत्नथा सहसा जायमान इति जानवेदस्यं समानोदर्कमित्यादि ब्राह्मणं ॥ ऐ ब्रा ५-१५ ॥ महापितृयज्ञे स्विष्टकृत्स्थानीयस्य कव्यवाहनस्य स प्रत्नथेत्येषा याज्या । दक्षिणाग्नेरिति खंडे सूत्रितम् । स प्रत्नथा सहसा जायमाद इत्यग्निः स्विष्टकृत्कव्यवाहनः (आ २-१९) इति ॥

सहसा बलेन जायमानो निर्मथनेनोत्पद्यमानः सोऽग्निः सद्यस्तदानीमुत्पत्त्यनंतरमेव प्रत्नथा प्रत्न इव चिरंतन इव विश्वा विश्वानि सर्वाणि काव्यानि कवेः क्रांतदर्शिनः प्रगल्भस्य कर्माणि बट् सत्यमधत्त । अधारयत् । पूर्वं विद्यमान इवाग्निरुत्पत्तिसमकालमेव स्वकीयं हविर्वहनादिकं सर्वं कार्यमकरोदित्यर्थः । इममग्निं वैद्युतरूपेण वर्तमानं मेघेष्ववस्थिता आपश्च धिषणा च या माध्यमिका वाक् सा च मित्रं सखिभूतं साधन् । साधयंति । कुर्वंति । तमिमं द्रविणोदां द्रविणस्य धनस्य दातारमग्निं देवा ऋत्विजो धारयन् । गार्हपत्यादिरूपेण धारयंति । यद्वा देवा एवेंद्रादय इममग्निं द्रविणोदां हविर्लक्षणस्य धनस्य दातारं कृत्वा दूत्ये धारयन् । धारयंति ॥ प्रत्नथा । प्रत्नपूर्वविश्वेमात्थाल् छंदसीतीवार्थे थाल्प्रत्ययः । काव्यानि । कवेः कर्म काव्यम् । गुणवचनब्राह्मणादिभ्य इति ष्यञ् । ञित्त्वादाद्युदात्तत्वम् । साधन् । षिधु संराद्धौ । णौ सिध्यतेरपारलौकिके (पा ६-१-४९) इत्यात्वम् । लेट्यडागमः । इतश्च लोप इतीकारलोपः । छंदस्युभयथेति शप आर्धधातुकत्वाण्णेरनिटीति णिलोपः । द्रविणोदाम् । द्रविणानि ददातीति द्रविणोदाः । द्रु गतौ । द्रुदक्षिभ्यामिनन् । छांदसः पूर्वपदस्य सुक् । अन्येभ्योऽपि दृश्यंत इति ददातेर्विच् । सकारांतं त्वसुनि कृते निष्पद्यते ॥ १ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः