मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९६, ऋक् २

संहिता

स पूर्व॑या नि॒विदा॑ क॒व्यता॒योरि॒माः प्र॒जा अ॑जनय॒न्मनू॑नाम् ।
वि॒वस्व॑ता॒ चक्ष॑सा॒ द्याम॒पश्च॑ दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥

पदपाठः

सः । पूर्व॑या । नि॒ऽविदा॑ । क॒व्यता॑ । आ॒योः । इ॒माः । प्र॒ऽजाः । अ॒ज॒न॒य॒त् । मनू॑नाम् ।
वि॒वस्व॑ता । चक्ष॑सा । द्याम् । अ॒पः । च॒ । दे॒वाः । अ॒ग्निम् । धा॒र॒य॒न् । द्र॒वि॒णः॒ऽदाम् ॥

सायणभाष्यम्

सोऽग्निः पूर्वया प्रथमयाग्निर्देवेद्ध इत्यादिकया निविदा कव्यता गुणिनिष्ठगुणाभिधानलक्षणां स्तुतिं कुर्वतायोर्मनो संबंधिनोक्थेन च स्तूयमानः सोऽग्निर्मनूनां संबंधिनीरिमाः प्रजा अजनयत् । उदपादयत् । मनुना स्तुतः सन् मानवीः सर्वाः प्रजा अजनयदित्यर्थः । तथा विवस्वता विवासनवता विशेषेणाच्छादयता चक्षसात्मीयेन तेजसा द्यां द्युलोकमपश्चांतरिक्षं च व्याप्नोतीति शेषः । अन्यत्समानं ॥ कव्यता । कु शब्दे । अचो यदिति भावे यत् । कव्यं कवनं स्तुतिं करोति । तत्करोति । पा ३-१-२६-५ । इति णिच् । तदंतात् क्विप् । बहुलमन्यत्रापि संज्ञाच्छंदसोरिति णिलुक् । ततस्तुक् । धातुस्वरेणांतोदात्तत्वम् । आयोः । इण् गतौ । छंदसीण इत्युण् प्रत्ययः ॥ २ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः