मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९६, ऋक् ३

संहिता

तमी॑ळत प्रथ॒मं य॑ज्ञ॒साधं॒ विश॒ आरी॒राहु॑तमृञ्जसा॒नम् ।
ऊ॒र्जः पु॒त्रं भ॑र॒तं सृ॒प्रदा॑नुं दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥

पदपाठः

तम् । ई॒ळ॒त॒ । प्र॒थ॒मम् । य॒ज्ञ॒ऽसाध॑म् । विशः॑ । आरीः॑ । आऽहु॑तम् । ऋ॒ञ्ज॒सा॒नम् ।
ऊ॒र्जः । पु॒त्रम् । भ॒र॒तम् । सृ॒प्रऽदा॑नुम् । दे॒वाः । अ॒ग्निम् । धा॒र॒य॒न् । द्र॒वि॒णः॒ऽदाम् ॥

सायणभाष्यम्

हे विशः सर्वे मनुष्याः । आरीरग्निं स्वामिनं गच्छंत्यो यूयं तमग्निमीळत । स्तुध्वम् । कीदृशम् । प्रथमं सर्वेषु देवेषु मुख्यम् । यज्ञ साधं यज्ञस्य दर्शपूर्णमासादेः साधकं निष्पादकं आहुतं हविर्भिस्तर्पितं ऋंजसानं स्तोत्रैः प्रसाध्यमानं ऊर्जोऽन्नस्य पुत्रम् । भुक्तेनान्नेन जाठराग्नेर्वर्धनादग्नेरन्न पुत्रत्वम् । भरतम् । हविषां भर्तारम् । यद्वा । प्राणरूपेण सर्वासां प्रजानां भर्तारम् । श्रूयते च । स्वदेहे एष प्राणो भूत्वा प्रजा बिभर्ति तस्मादेष भरत इति । सृप्रदानुं सर्पणशीलदानयुक्तम् । अविच्छेदेन धनानि प्रयच्छंतमित्युर्थः । देवा इत्यादि गतं ॥ ईळत । ईड स्तुतौ । लोट व्यत्ययेन परस्मैपदम् । बहुलं छंदसीति शपो लुगभावः । यज्ञ साधम् । यज्ञं साधयतीति यज्ञ सात् । साधयतेः क्विप् । णेरनिटीति णिलोपः । आरीः । ऋ गतौ । सूचिसूत्रीत्यादिना । पा ३-१-२२-३ । यङ् । यङोऽचि चेति चशब्देन बहुलग्रहणानुकर्षणादनैमित्तिको लुक् । प्रत्ययलक्षणेन द्विर्भाव उरदत्वहलादिशेषौ । रुग्रिकौ च लुकीति रुक् । यङ् लुगंतादौणादिकः किप्रत्ययः । यणादेशे रो रीति रेफलोपः । ढ्रलोपे पूर्वस्येति दीर्घत्वम् । कृदिकारादक्तिन इति ङीष् । जसि वा छंदसीति पूर्वसवर्णदीर्घत्वम् । व्यत्ययेनाद्युदात्तत्वम् । ऋंजसानम् । ऋंजतिः प्रसाधनकर्मा । ऋंजिवृधिमंदिसहिभ्यः कित् (उ २-८७) इति कर्मण्यसानच् । भरतम् । भृञ् भरणे । भृमृदृशीत्यादिनातच् । सृप्रदानुम् । सृप्लृगतौ । स्फायितंचीत्यादिना रक् । सृप्रो दानुर्दानं यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ३ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः